________________
२१० ] . बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ३६-४० ] न राजाचार्यब्राह्मणवृष्णः ॥ ७. १. ३६ ॥
राजन आचार्य ब्राह्मण वृषन् इत्येतेभ्यश्चतुर्थ्यन्तेभ्यो हितेऽर्थेऽधिकृतः प्रत्ययो न भवति । राज्ञे हितः आचार्याय हितः, ब्राह्मणाय हितः, वृष्णे हितः इति वाक्यमेव भवति ।३६। प्राण्यङ्गरथखलतिलयववृषब्रह्ममाषाद्यः ।। ७. १. ३७ ॥
प्राण्यङ्गवाचिभ्यो रथादिभ्यश्च चतुथ्यन्तेभ्यो हितेऽर्थे यः प्रत्ययो भवति । दन्तेभ्यो हितं दन्त्यम्, कर्ण्यम्, चक्षुष्यम्, कण्ठयम्, ओष्ठयम्, नाभ्यम्, 'रथाय हिता रथ्या भूमिः, खलाय हितं खल्यम् अग्निरक्षणम्, तिलेभ्यो हितः तिल्यो वायुः, यवेभ्यो हितो यव्यस्तुषारः, वृषाय हितं वृष्यं क्षीरपाणम्, ब्रह्मणे हितो ब्रह्मण्यो देशः, माषेभ्यो हितो माष्यो वातः । सादेश्चेत्यधिकारात् राजदन्त्यम्, शङ्खनाभ्यम्, अश्वरथ्या भूमिः, कृष्णतिल्यः, राजमाष्यः ।३७। ___ न्या० स० प्राण्य.- शंखनाभ्यमिति शंखो नाभिश्च देहांशौ ततः शंखश्च नाभिश्च 'प्राणि-तूर्याड गाणाम् ' ३-१-३६ इति समाहारे शंखनाभिने हितं, शंखाकारा नाभिर्वा तदा शंखनाभये हितम् । अव्यजात्थ्यप् ॥ ७. १.३८ ।।
अवि अज इत्येताभ्यां तम्मै हिते थ्यप् प्रत्ययो भवति । अविभ्यो हितम् अविथ्यम्, अजेभ्यो हितम् अजथ्यम्, पकारः पुवद्भावार्थः । अजाभ्यो हिता अजथ्या यूतिः ।३८।
__ न्या० स० अव्य०-अजध्येति-पित्करणमामात ‘स्वाङ्गान्डीर्' ३-२-५६ इत्यनेन निषिद्धोऽपि 'क्यङ्मानि' ३-२-५० इत्यनेन पुंवद्भावः । चरकमाणवादीनञ् ॥ ७. १. ३९॥
आभ्यां तस्मै हितेऽर्थे ईनञ् प्रत्ययो भवति । चरकेभ्यो हितश्चारकीणः, माणवीन: ।३९। भोगोत्तरपदात्मय्यामीनः ॥ ७. १. ४०॥
भोगोत्तरपदादात्मनशब्दाच्च तस्मै हितेऽर्थे ईनः प्रत्ययो भवति । मातृभोगाय हितो मातृभोगीणः पितृभोगोणः, ग्रामणिभोगोनः, सेनानिभोगीनः, आचार्यभोगीनः । अत्र क्षुम्नादित्वान्न णत्वम् । आत्मन्, आत्मने हितः आत्मनीनः, अनात्मनीनः । 'ईनेऽध्वात्मनोः' (७-४-४८) इत्यन्त्यस्वरादिलोपाभावः ।४०।