________________
[ पाद. १. सू. ३२-३५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२०९ न चोधसः ॥ ७. १. ३२ ॥
ऊधस्शब्दात् आ तदोऽर्थेषु यः प्रत्ययो नकारश्चान्तादेशो भवति, ईयापवादः । ऊधसे हितम् ऊधन्यम् ।३२।
न्या० स० न चोध०-ईयापवाद इति यदा प्राण्यावाची तदा यः सिद्ध एव नकाराssदेशोऽनेन विधीयते, यदातु न प्राण्यङ्गवाची किंतु तदाकारं किंचिदभ्रादि विवक्ष्यते तदा ईयः प्राप्नोति, अतस्तदपवादः । शुनो वश्वोदूत् ॥ ७. १. ३३ ॥
श्वनशब्दादा तदोऽर्थेषु यः प्रत्ययो भवति वकारश्च उकार उकाररूपो भवति, अभेदनिर्देशः सर्वादेशार्थः । शुने हितं शुन्यम्, शून्यम् ।
नाभि ऊधस् श्वनशब्दान् युगादिषु पठित्वापि शक्यः प्रत्ययः आदेशार्थास्तु योगाः ।३३।
न्या० स० शुनो०-युगादिष्विति नाभ्यूधसोः प्राण्यङ्गत्वाभावे युगादिपाठ आश्रीयेत, प्राण्यगार्थत्वे तु 'प्राण्यगरथ ' ७-१-३७ इत्यनेनैव यः सिध्येत् । कम्बलान्नानि ।। ७. १. ३४॥
कम्बलशब्दादा तदोऽर्थेषु यः प्रत्ययो भवति ईयापवादः नाम्नि संज्ञायां विषये । कम्बलोऽस्य स्यात् कम्बल्यं परिमाणम् ऊर्णापलशतमुच्यते । अशीतिशतमित्यन्ये । षट्षष्टिशतमित्यपरे। नाम्नीति किम् ? कम्बलीया ऊर्णा ।३४। तस्मै हिते ॥ ७. १. ३५॥
हित उपकारकः, तस्मै इति चतुर्थ्यन्तानाम्नो हितेऽर्थे यथाधिकृतं प्रत्ययो भवति । वत्सेभ्यो हितो वत्सीयः, करभीयः, पित्रीयः, मात्रीयः, आमिक्ष्यः, आमिक्षीयः, ओदन्यः, ओदनीयः, अपूप्यः, अपूपीयः, हविष्यः, युग्यः, शुन्यः, शून्यः, ऊधन्यः । वत्सेभ्यो न हितः अवत्सीयः, एवमकरभोयः ।३५।
__ न्या० स० तस्मै०–अवत्सीय इति ननु हिते प्रत्यय उच्यमानो निषिध्यमाने तस्मिन् कथं स्यादिति चेत् १ न,
विवक्षोपागेहिण्यर्थे शब्दप्रयोगाद् बाह्यवस्तुनिषेधेऽपि न तनिषेधः, अन्यथा निषिध्यमानाभिधायिशब्दप्रयोगान्निर्विषयप्रतिषेधः कथमिव शक्यक्रियः स्यात् , प्रत्ययार्थस्य च प्रकृत्यर्थेन न प्रत्ययार्थेनाऽसामर्थ्यात् , एतदेव हि प्राधान्यं यधुगपत्कालोपकारकसंबन्धसहत्वं नाम, एवं हितार्थे नबर्थापेक्षेऽपि प्रत्ययोत्पत्तिरविरुद्धा।