________________
[ पाद १. सू. ५५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २१५ ऽस्मात् अभिधानप्रत्ययौ इति भावः शब्दस्य प्रवृत्तिनिमित्तम् द्रव्यसंसर्गी भेदको गुणः, यदाहुः यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति । तत्र 'जातिगुणाज्जातिगुणे, समासकृत्तद्धितात्तु संबन्धे । डित्थादेः स्वे रूपे, स्वतलादीनां विधिर्भवति' । तत्र जातिवचनेभ्यो जातौ, गौः शब्दस्य भावो गोत्वम् गोता, अत्र गोशब्दजातिर्भावः, गोरर्थस्य भावो गोत्वम् गोता, अत्र गवार्थजातिर्भावः । एवमश्व वमश्वता, शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेत्य त्र शुक्लगुणजातिः, रूपस्य भावो रूपत्वम् रूपता, रसस्य रसत्वम्, रसता । अत्र रूपादिगुणजाति: । कत्वं खत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः। कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः। गुणशब्देभ्यो गुणे, शुक्लस्य पटस्य भावः शुक्लत्वम् शुक्लता । अत्र शुक्लो गुणो भावः । एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः । अणुत्वं महत्त्वमिति परिमाणलक्षणो गुणः, एकत्वं द्वित्वमिति संख्यालक्षणः, पृथक्त्वं नानात्वमिति भेदलक्षणः, उच्चस्त्वं नीचैस्त्वमिति उच्छयादिलक्षणः, वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्वे वर्तन्ते इति प्रत्ययः विग्रहस्तु पृथग्भूतस्य भाव इत्यादि । पटवादयोऽपि गुणा एवेति पटुत्वं मृदुत्वं तीक्ष्णत्वमित्यादिष्वपि गुणो भावः । समासात्संबन्धे, राजपुरुषत्वं चित्रगुत्वम् । अत्र स्वस्वामिसंबन्धः। कृतः संबन्धे, पाचकत्वं पक्तृत्वं कार्यत्वं साधनत्वम् । अत्र क्रियाकारकसंबन्धः । तद्धितात्संबन्धे, औपगवत्वम् दण्डित्वं विषाणित्वम् । अत्रोपगुदण्डादिसंबन्धः ।
डित्थादेः स्वरूपे, डित्थादेस्तु यदच्छाशब्दादन्यस्य प्रवृत्तिनिमित्तस्यासंभवात्तस्मिन्नेव स्वरूपे डित्थशब्दवाच्यतया अध्यवसितभेदेऽव्यतिरिक्तेऽपि व्यति रिक्त इव शब्दप्रत्यय बलात् बुद्ध्यावगृहीते धर्मे प्रत्ययः। डित्थस्य भावः स्वरूपंडित्थत्वं डवित्थत्वम् । एवं गोजाते वो गोत्वम् गोतेति गोशब्दस्य स्वरूपम् । शुक्ल जातेर्भावः शुक्लत्वं शुक्लतेति शुक्लशब्दस्य स्वरूपम्, गवादयो हि यदा जातिमात्रवाचिनस्तदा तेषां शब्दस्वरूपमेव प्रवृत्तिनिमित्तम्, तथाह्यर्थजातौ शब्दार्थयोरभेदेन शब्द स्वरूपमध्यवस्यते यो गोशब्दः स एवार्थ इति । एवं देव दत्तत्वं, चन्द्रत्वं, सूर्यत्वं, दिक्त्वम्, आकाशत्वम्, अभावत्वमिति स्वरूपमेवोच्यते ।
____एके तु यहच्छाशब्देषु शब्दस्वरूपं संज्ञासंज्ञिसंबन्धो वा प्रवृत्तिनिमित्तमिति मन्यन्ते, अन्ये तु डिस्थत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम्, चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेदभिन्न व्यक्तिसमवेतं सामान्यं, दिक्त्वम् आकाशत्वम् अभावत्वम् इति उपचरितभेदव्यक्तिसमवेतं सामान्य