________________
[ पाद १. सू. ८-१०] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२०३ द्विहलः, द्विसीरः । द्वे शकटे हले सीरे वा वहति द्वैशकटः, द्वैहलिकः, द्वैसीरिकः। अन्ये तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न वहत्यर्थे तन्मते द्विशकट इत्येव भवति । हलसीराभ्यां तु तदन्तविधि नेच्छन्त्येव ।।
न्या० स० शक०-इकणू चेति तृतीयपादोक्तेन ‘हलसीरादीकण्' ६-३-१६१ इति सूत्रेणेत्यर्थः । तदन्तार्थमिति अलुबर्थमित्यर्थः, यतस्तदन्तस्यैव लुप्यप्रसङ्गः। द्विशकट इति त्रिष्वपि ' तस्येदम् ' ६-३-१६० इत्यणो लुप्, न तु ' हलसीराभ्याम् '
इति शैषिकेण सूत्रेण विहतस्येकणः, केवलाभ्यां तेन विधानात् । अन्ये विति-अयमभिप्रायः, ते हि हलसीराभ्यामिकण इति इदमर्थप्रस्ताव एवारभन्ते, शकटात्तु औत्सर्गिकोऽण् सिद्ध एव, ततश्च यथा रथात् सपूर्वादपि य प्रत्यय इष्यते, न तथा हलसोराभ्यामिति वचनान्न केवलं तदन्ताभ्यामिकण न भवति, औत्सर्गिकोऽणपीति द्विहल त्रिहल इत्यादि न भवति । विध्यत्यनन्येन ॥७. १.८ ।।
तमिति वर्तते, तमिति द्वितीयान्ताद्विध्यत्यर्थे यः प्रत्ययो भवति, स चेद्विध्यन्नात्मनोऽन्येन करणेन न विध्यति ।
पादौ विध्यन्ति पधाः शर्कराः। ऊरू विध्यन्ति ऊरव्याः कण्टकाः । उरो विध्यन्ति उरस्या वाताः । अनन्येनेति किम् ? चौरं विध्यति चैत्रः । अत्र हि चैत्रश्चौरं विध्यन् धनुषा पाषाणेन वा विध्यति । शर्करादयस्तु न करणेन विध्यन्ति । यच्चमुखतक्ष्ण्यादि करणम् ततेषामात्मनो नान्यत् । यद्येवं पादौ विध्यन्ति शर्कराः मुखेनेति करणप्रयोगे कस्मान्न भवति अस्ति हि अत्रानन्यत्करणमिति ? उच्यते, अत्राप्रधानस्य सापेक्षत्वात् । साधनप्रधाने हि तद्धिते क्रियाऽप्रधानमेव । अनभिधानाद्वा। मुखेन पद्या इत्युक्ते हि मुखस्योपलक्षणत्वं सहयोगो वा प्रतीयते न व्यधनं प्रति करणत्वमिति ।८।
न्या० स० विध्य०-सापेक्षत्वादिति अप्रधानस्य व्यधनस्य कोऽर्थोऽप्रधानाया व्यधनक्रियाया मुखस्याऽपेक्षमाणत्वात् , अप्राधान्यं च कुतः १ इत्याह-साधनप्रधाने हीति यतः पद्या इत्युक्ते व्यधनक्रियाविशिष्टः कर्लोच्यते अतः कत्तव प्रधानं तद्धिते । अनभिधानाद्वेति अप्रतिपादनादित्यर्थः। धनगणाल्लब्धरि ॥ ७. १. ९ ॥
द्वितीयान्ताद्धनशब्दादणशब्दाच्च लब्धर्यर्थे यः प्रत्ययो भवति । धनं लब्धा धन्यः, गणं लब्धा गण्यः । लब्धेति तृन्नन्तम् ।। _णोऽन्नात् ।। ७. १.१०॥
अन्नशब्दाद्वितीयान्ताल्लब्धरि णः प्रत्ययो भवति । अन्नं लब्धा आन्नः ।१०॥