________________
२०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ ० ११ ] हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागार्हपत्यजन्यधर्म्यम् ।
॥ ७. १. ११॥ हृद्यादयः शब्दा यथास्वमर्थविशेषेषु यप्रत्ययान्ता निपात्यन्ते, हृद्य इति हृदयशब्दात् षष्ठयन्तात् प्रियेऽर्थे बन्धने च वशीकरणमत्रे यः प्रत्ययो निपात्यते । हृदयस्य प्रियं हृद्यमौषधम् । हृद्यो देशः । हृदयस्य बन्धनो हृयो वशीकरणमन्त्रः । ' हृदयस्य हृल्लासलेखाण्ये '-(३-२-९४) इति हृदादेशः । निपातनं रूढयर्थं तेनेह न भवति । हृदयस्य प्रियः पुत्रः । पद्य इति पदशब्दात्प्रथमान्तात् दृश्यत्वोपाधिकादस्मिन्निति सप्तम्यर्थे यः। पदमस्मिन् दृश्यं पधः कर्दमः नातिद्रवो नातिशुष्को यत्र प्रतिमुद्रोत्पादनेन पदं द्रष्टुं शक्यते, तुल्य इति तुलाशब्दात्संमितेऽर्थे यः, तुलया संमितं तुल्यं भाण्डम्, निपातनं रूढयर्थम्, तेन न तुलासंमित एवोच्यते किं तु सहशार्थोऽपि तुल्यशब्दः, गिरिणा तुल्यो हस्ती। मूल्यमिति मूलशब्दात्प्रथमान्तादस्येति षष्ठ्यर्थे यः तच्च यद्युत्पाटनयोग्य भवति । मूलमेषामुत्पाठयं मूल्या मुद्राः । तृतीयान्ताच्चानाम्ये समे च, मूलेनानाम्यं मूल्यम् । मूलं पटाद्युत्पत्तिकारणम्, तेनानाम्यं यत्पटादेविक्रयात्प्राप्यते सुवर्णादि तन्मूल्यम् । मूलेन समो मूल्यः पटः, उपादानेन समानफल इत्यर्थः । वश्य इति वशशब्दाद्वितीयान्ताद्भतेऽर्थे य: । वशं गतो वश्यो गौविधेयः । इच्छानुवर्तीति यावत्, निपातनं रूढयर्थं तेनेह न भवति । वशं गतः, इच्छां प्राप्तः, अभिप्रेतं गत इत्यर्थः। पथ्य इति पथिन्शब्दादनपेते यः पथोऽनपेतं पथ्यम् ओदनादि । निपातनादिह न भवति, पथोऽनपेतं शकटादि । वयस्य इति वयःशब्दात्तृतीयान्तात्तुल्येऽर्थे यः। वयसा तुल्यो वयस्यः सखा, निपातनादिह न भवति । वयसा तुल्यः शत्रुः ।
___ धेनुष्येति-धेनुशब्दाद्विशिष्टायां धेनौ यः षोऽन्तश्च । धेनुष्या या गोमता गोपालायाधमणेन चोत्तमय आ ऋणप्रदानाद्दोहार्थं धेनुदीयते सा धेनुरेव धेनुष्या। पीतदुग्धेति यस्याः प्रसिद्धिः। गार्हपत्य इति गृहपतिशब्दात्तृतीयान्तात्संयुक्तेऽर्थे ज्यः प्रत्ययः, गृहपतिना संयुक्तो गार्हपत्य एवंनामा कश्चिदग्निः । निपातनादन्यत्र न भवति । जन्य इति जनीशब्दाद्वधूवाचिनो द्वितीयान्ताद्वहत्सु अभिधेयेषु जनशब्दाच्च षष्ठयन्ताज्जल्पेऽर्थे यः । जनीं वहन्ति जन्याः जामातुवयस्या उच्यन्ते, जनस्य जल्पः जन्यः । निपातनादन्यत्र न भवति । धर्म्य इति धर्मशब्दात्तृतीयान्तात्प्राप्येऽर्थे पञ्चम्यन्ताच्चानपेतेऽर्थे यः । धर्मेण प्राप्यं