________________
२०२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ३-७ ] धुरो यैयण ॥ ७. १. ३ ॥
धुर् इत्येतस्मात् द्वितीयान्तात् वहत्यर्थे य एयण् इत्येतौ प्रत्ययौ भवतः। धुरं वहति धुर्यः धौरेयः । एयण वेत्यकृत्वा यग्रहणमिदमर्थविवक्षायां वहत्यर्थेऽण्बाधनार्थम् । यो हि यद्वहति स तस्य संबन्धी । कश्चित् तु यडेय कणावपीच्छति तन्मते धुर्यः । स्त्रियां टित्त्वान् ङी धुरी, धौरेयकः ।३। वामाद्यादेरीनः ॥ ७ १. ४ ॥
वाम आदिर्येषां ते वामादयः। तत्पूर्वात् धुर् इत्येतदन्तात् द्वितीयान्ताद्वहत्यर्थे ईनः प्रत्ययो भवति । वामा धूर्वामधुरा, समासान्तादाप् । वामधुरां वहति वामधुरीणः । एवं सर्वधुरीणः, उत्तरधुरीणः, दक्षिणधुरीणः। वामादयः प्रयोगगम्याः । सर्वधुर्य इत्यत्र यप्रत्ययोऽपीति कश्चित् । धुरीण इति केवलादपीन इत्यन्यः ।४।
न्या० स० वामा०-धुर इत्येतदन्तादिति ननु च वामधुरादिसमुदायः समासान्तादापि कृते धुरन्तो न भवति तत्र कथं धुरन्तादुच्यमानः प्राप्नोति प्रत्ययः ? ___ उच्यते, 'धुरोऽनक्षस्य ' ७-३-७७ इति समासान्तेन भाव्यमेव ततः सामासान्तत्वे मुख्यान्तत्वायोगात् तत्समीपवर्ती समासान्तो धुरन्त इत्यदोषः। अश्चैकादेः॥ ७. १. ५॥
एकशब्दादेधुर् इत्येतदन्ताद्वितीयान्ताद्वहत्यर्थे अः प्रत्ययो भवति चकारादीनश्च । एका एकस्य वा धूरेकधुरा । एका धूरस्मिन्नेकधुरम्, तां तद्वा वहति एकधुरः, एकधुरीणः ।। हलसीरादिकण् ॥ ७. १. ६॥
हलसीर इत्येताभ्यां द्वितीयान्ताभ्यां वहत्यर्थे इकण् प्रत्ययो भवति । हलं वहति हालिकः, सैरिकः ।६। शकटादण ॥ ७.१.७॥
शकटशब्दाद्वितीयान्ताद्वहत्यर्थेऽण् प्रत्ययो भवति । शटकं वहति शाकटो गौः ।
ननु च तस्येदम् ' (६-३-१५९) इति शकटादण् हलसीरादिकण (६-३-१६०) इति हलसीराभ्याम् इकण च सिद्ध एव, यो हि यद्वहति स तस्य संबन्धी भवति ? सत्यम्, रथवदेव तदन्तार्थमुपादानम्, तेनात्रापि द्विगौ द्वैरूप्यं भवति । द्वयोः शकटयोहलयोः सीरयोर्वा वोढा द्विशकटः,