________________
॥ अथ सप्तमोऽध्यायः ॥
॥ प्रथमः पादः॥ यः ॥ ७ १.१॥
अधिकारोऽयम्, यदित ऊर्ध्वमनुक्रमिष्यामो यावत् प्रकृतिसामान्यविषयमनुपात्तप्रकृतिविशेषं प्रत्ययान्तरमीयोऽधिकरिष्यते तावत् तत्र य इत्येतदपवादविषयं परिहृत्याधिकृतं वेदितव्यम् ।। ___न्या० स० य:-प्रकृतसामान्येति प्रकृतिसामान्यं विषयो यस्य अत एवानुपात्तः प्रकृतिविशेषो यत्र तत्प्रत्ययान्तरमीयलक्षणमित्यर्थः। वहति रथयुगप्रासङ्गात् ॥ ७. १. २ ॥
तमित्यनुवर्तते, तमिति द्वितीयान्तेभ्यो रथयुगप्रासङ्ग इत्येतेभ्यो वहत्यर्थे यः प्रत्ययो भवति ।
रथं वहति रथ्यः, द्वौ रथी वहति द्विरथ्यः, युगं वहति युग्यः। इहानभिधानान्न भवति । कालसंज्ञकं युगं वहांते राजा, युगं वहति मनुष्यः। 'कुप्य भिध'-(५-१-३९) इत्यादिनिपातनादेव युग्य इति सिद्धे इदमर्थविवक्षायामण्बाधनार्थं युगग्रहणम् । यो हि युगं वहति स युगस्य संबन्धी भवति । प्रसज्यते इति प्रासङ्गः । यत्काष्ठं वत्सानां दमनकाले स्कन्ध आसज्यते । तत् वहति यः स प्रासङ्गयः। यत्त्वन्यत् यत्प्रसङ्गादागतं प्रासङ्गमिति तदहति न भवत्यनभिधानात् । ननु यो रथं वहति स रथस्य वोढा भवति, तत्र 'रथात्सादेश्च वोढुङ्गे' 'यः'-(६-३-१७५) इत्येव सिद्धम् तत्कि रथस्य ग्रहणेन ? सत्यम्, अलुबर्थ तु तस्य ग्रहणं, तेन हि ये विधीयमाने 'द्विगोरनपत्ये यस्वरादेल बद्विः'-(६-१-२४) इति लुपा भवितव्यम् । द्वयो रथयोर्वोढा द्विरथः । अनेन तु विधीयमाने न भवति अप्रागजितीयत्वात्, एवं च द्विगौ रूपद्वयं संपन्नं भवति ।। __न्या० स० वह-युगं वहति मनुष्य इति अकालसंज्ञकेऽपि युगे मनुष्ये वोढरि न भवतीत्यर्थः। अनेन त्पिति नन्वत्र ग्रहणवता न्यायादेव तदन्तस्य यो न भविष्यति तत्कथमुच्यते अलुबर्थमिति !
उच्यते, एतदेव सूत्रकरणं ज्ञापयति, यत्तदन्तादपि भवति ।