________________
२०० ]
बृहद्वृत्ति-लघुन्याससवलिते. [पाद. ४. सू. १८२-१८५ } छेदादेनित्यम् ॥ ६. ४. १८२ ॥
नित्यमित्यर्हतीत्यस्य विशेषणम्, छेदादिभ्यो द्वितीयान्तेभ्यो नित्यमहत्यर्थे यथाविहितं प्रत्ययो भवति। छेदं नित्यमर्हति छैदिकः, भैदिकः । छेद, भेद, द्रोह, दोह, नर्त, गोनर्त, कर्ष, विकर्ष, प्रकर्ष, विप्रकर्ष, प्रयोग, विप्रयोग, संप्रयोग, प्रेक्षण, संप्रश्न, विप्रश्न इति छेदादिः ।१८२। विरागादिरङ्गश्च ॥ ६. ४. १८३ ॥
विरामशब्दाद्वितीयान्तान्नित्यमहत्यर्थे यथाविधि प्रत्ययः तत्संनियोगे च विरागशब्दस्य विरङ्गादेशो भवति । नित्यं विरागमर्हति वैरङ्गिकः ।१८३। शीर्षच्छेदाद्यो वा ।। ६. ४. १८४ ॥
शीर्षच्छेदाद्वितीयान्तानित्यमहत्यर्थे यः प्रत्ययो वा भवति, पक्षे इकण् । शीर्षच्छेदं नित्यमर्हति शीर्षच्छेद्यः चौरः, शैर्षच्छदिकः ।१८४।।
शालीनकौपीनाविजीनम् ॥ ६. ४. १८५॥ ___ शालीन कौपीन आत्विजीन इत्येते शब्दास्तमहत्यर्थे ईनप्रत्यपान्ता निपात्यन्ते, नित्यमिति निवृत्तम् । निपातनस्येष्ट विषयत्वात् । शालीन इति शालाप्रवेशनशब्दादीनञ् उत्तरपदस्य च लुक, शालाप्रवेशन मर्हति शालोनः, अकारस्य वृद्धिनिमित्तत्वात्पुवद्भावो न भवति । शालीनाभार्यः । शालीनशब्दोऽधृष्टपर्यायः । कौपीन इति कूपप्रवेशनमर्हति कौपीनः, कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे तदावरणे च चीवरखण्डे वर्तते । आत्विजीन इति ऋत्विज्शब्दात् ऋत्विकर्मशब्दाद्वा ईनञ् प्रत्ययः कर्मशब्दलोपश्च निपात्यते, ऋत्विजमहत्यात्विजीनो यजमानः, ऋत्विक्कर्हिति आत्विजीनः ऋत्विगेव ।१८५।
न्या० स० शाली-गोपनीयेति उपस्थशब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुह्यप्रतिपत्त्यर्थ गोपनीयग्रहणम् ।
इत्याचार्य० षष्ठस्याध्यायस्य चतुर्थः पादः ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज़शब्दानुशासनबृहद्वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥ ६. ४ ।।
भूमि कामगवि स्वगोमयरसैरासिन्न रत्नाकरा मुक्तास्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुम्भीभव ।
धृत्वा कल्पतरोदलानि सरलैदिग्वारणास्तोरणान्याधत्त स्वकरविजित्य जगतीं नन्वे ते सिद्धाधिपः ।।