________________
पाद. ४. सू. १७१ - १७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १९७ प्राप्ता न भवतीत्यर्थः । षष्टिर्जीवितमानमस्य षाष्टिकः, साप्ततिकः, वार्षशतिकः, वार्षसहस्रिकः, द्वे षष्टी जीवितमानमस्य द्विषाष्टिकः, त्रिषाष्टिकः, द्विसाप्ततिकः, त्रिसाप्ततिकः, द्विवार्षशतिकः, त्रिवार्षशतिकः, द्विवार्षसहस्रिकः । त्रिवार्षसहस्रिकः कथं पुनः षष्टघादयो जीवितमानं भवन्ति । वृत्तौ वर्षशब्देलोपात्, यथा शतायुर्वे पुरुष इति । एवं तर्हि मानमित्यनेनैव सिद्धे किमर्थमिदम् ? नैवम्, प्रास्थिक इत्यादौ व्रीह्मादय एव मेयाः त एव च प्रत्ययार्थः, अत्र तु जीवितं मेयं पुरुषस्तु प्रत्ययार्थ इत्येतदर्थं लुबभावार्थं
"
च ।१७०।
न्या० स० जीवि०–कथमिति दिनादीनानामपि कथं षष्ठ्यादिर्न लभ्यत इत्याह-वृत्तौ वर्षेति यथा शतं वर्षाण्यायुर्यस्यासौ शतायुरित्यत्र समासवृत्तौ गतार्थत्वात् वर्षशब्दलोपः, एतदर्थमिति पूर्वसूत्रे मेयः प्रत्ययार्थोऽत्र तु मानवाचिनी प्रकृतिः जीवितं मेयं प्रत्ययार्थस्तु मेवानित्यर्थः ।
संख्यायाः संघसूत्रपाठे ॥ ६. ४. १७१ ॥
संख्यावाचिनः प्रथमान्तादस्य मानमित्यर्थे यथाविहितं प्रत्ययो भवति यत्तदस्येति निर्दिष्टं तच्चेत्संघः सूत्रं पाठो वा भवति । संघः प्राणिनां समूहः, सूत्रं शास्त्रग्रन्थः, पाठोऽधीतिरध्ययनम् । पञ्च गावो मानमस्य पञ्चकः संघः, सप्तकः, अष्टावध्याया मानमस्याष्टकं पाणिनीयं सूत्रम्, दशकं वैयाघ्रपदीयम्, शतकं निदानम्, अष्टौ रूपाणि वारा मानमस्याष्टकः पाठोऽधीतः संघसूत्रपाठ इति किम् ? पश्च वर्णा मानमस्य पञ्चतयं पदम् पदं न संघो न सूत्रं न पाठ इति को न भवति । अपि तु तयडेव । एवं चतुष्टयी शब्दानां प्रवृत्तिः । पञ्चादीनां संख्येयानामवयवतया संघादेर्मानत्वान्मानमित्यनेनैव सिध्यति परत्वात्तुं तयट् प्राप्नोति तद्बाधनार्थं वचनम्, न चातिप्रसङ्गः । अभेदरूपापन्ने संघादौ तयायटोर्बाधिकमिदम् । भेदरूपापन्ने तु तयडेव । चतुष्टेय ब्राह्मणक्षत्रियविट् शूद्राः । द्वये देवमनुष्याः, स्याद्वादाश्रयणाच्चात्र भेदाभेदयोः संभव इति । १७१।
न्या० स० संख्याया० - न चातिप्रसङ्ग इति संघे वाच्ये क एवेति ।
नाम्नि ।। ६. ४. १७२ ॥
संख्यावाचिनस्तदस्य मानमित्यर्थे यथाविहितं प्रत्ययो भवति नाम्नि समुदायश्चेन्नाम भवति । पञ्चेति संख्या मानमेषां पञ्चकाः शकुनयः । त्रिकाः । शालङ्कायनाः, सप्तका ब्रह्मवृक्षाः, अष्टका राजर्षयः, योगविभागकरणात्