________________
१९८ ]
बृहद्वृत्ति-लघुन्याससंलिते [पाद. ४ सू० १७३-१७५ ] संज्ञायां पञ्चैव पञ्चकाः त्रय एव त्रिका इति स्वार्थे एव वा प्रत्ययो भवति ।१७२। विंशत्यादयः ॥६. ४. १७३ ॥
विंशत्यादयः शब्दा नाम्नि विषये तदस्य मानमित्यर्थे साधवो भवन्ति । द्वेर्दशदर्थे विभावः शतिश्च प्रत्ययः । द्वौ दशतौ मानमेषां संख्येयानामस्य वा संख्यानस्य विंशतिः, स्त्रिभावः शच्च प्रत्ययः, त्रयो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य त्रिंशत्, चतुरश्चत्वारिंभावः शच्च प्रत्यः, चत्वारो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य चत्वारिंशत् । पञ्चन आत्वं च, पञ्च दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य पञ्चाशत् । षषस्तिः षष्च, षट् दशतो मानमेषां सख्येयानामस्य वा संख्यानस्य षष्टिः, सप्तनस्तिः, सप्त दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य सप्ततिः, अष्टनोऽशी च, अष्टौ दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य अशीतिः, नवनस्तिः, नव दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य नवतिः, दशनः शभावस्तश्च प्रत्ययः । दश दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य शतम् दश शतानि मानमेषां संख्येयानामस्य वा संख्यानस्य सहस्रम्, एवं दश सहस्राण्ययुतम्, यशायुतानि नियुतम् । दश नियुतानि प्रयुतम् । दश प्रयुतान्यर्बुदम् । दशार्बुदानि न्यर्बुदम् । बहुवचनाल्लक्षकोटिखर्वनिखर्वादयो भवन्ति, पञ्च पादा मानमस्याः पङिक्तश्छन्दः । पिपीलिकापङ्क्तिरित्यादौ तु पचुण विस्तारे इत्यस्मात् क्त्यन्ताद्भवति, यदत्र लक्षणेनानुत्पन्न तत्पर्व निपातनात्सिद्धम् ॥ लिङ्गसंख्यानियमश्च विंशत्याद्या शतादिति सिद्धः।१७३।
___ न्या० स० विंश०-बहुवचनादिति दशायुतानि लक्षं दश प्रयुतानि कोटिः, दशाब्जानि खर्वम् , दशसर्वाणि निखर्वम् । त्रैशं चात्वारिंशम् ॥ ६. ४. १७४ ॥
त्रिशच्चत्वारिंशदित्येताभ्यां तदस्य मानमित्यर्थे डण् निपात्यते प्रत्ययान्त चेत्कस्यचिन्नाम भवति । त्रिंशदध्याया मानमेषां शानि चात्वारिंशानि कानिचित् ब्राह्मणान्येवमुच्यन्ते ।१७४। पञ्चदशदर्गे वा ॥ ६. ४. १७५ ।। पञ्चद्दशदित्येतौ शब्दौ तदस्य मानमित्येतस्मिन् विषये वर्गेऽभिधेये