________________
१९६] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १६७-१७० ] हरदादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । भारभृतान् वंशान हरति वहति आवहति वा वांशिकः, कौटिकः, वाल्वजिकः । भारादिति किम् ? एक वंशं हरति, हरतिर्देशान्तरप्रापणे चौर्ये वा। वह तिरुक्षिप्य धारणे, आवहतिरुपादाने । वंश, कुट, कुटज, वल्वज, मूल, स्थूणा, अक्ष, अश्मन्, इक्षु, खट्वा, श्लक्ष्ण इति वंशादिः ।। बहुवचनमर्थत्रयसूचनार्थम् ।१६६।
द्रव्यवस्नात्केकम् ॥ ६. ४. १६७ ।।। ___ द्रव्यवस्न इत्येताभ्यां द्वितीयान्ताभ्यां हरति वहति आवहति चार्थे यथासंख्यं क इक इत्येतौ प्रत्ययौ भवतः। द्रव्यं हरति वहति आवहति वा द्रव्यकः, एवं वस्निकः ।१६७।
सोस्य भृतिवस्नांशम् ॥ ६. ४. १६८॥ ___स इति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितमिकणादयो भवन्ति, यत्तत्प्रथमान्तं तच्चेद्भतिर्वस्नमंशो वा भवति । भृतिवेतनम्, वस्नो नियतकालक्रयमूल्यम् । अंशो भागः, पञ्चास्य भृतिः पञ्चकः कर्मकरः, पञ्चास्य वस्नं पञ्चक: पटः, पञ्चास्यांशाः पञ्चकं नगरम्, एवं सप्तकः, अष्टकः, शत्यः शतिकः, साहस्रः, प्रास्थिकः ।१६८। मानम् ॥ ६. ४. १६९ ॥
सोऽस्येति वर्तते । स इति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेन्मानं भवति, मीयते येन तन्मानम् । प्रस्थो मानमस्य प्रास्थिको राशिः । द्रौणिकः, खारीकः, खारीशतिकः, खारीसहस्रिकः । वर्षशतं मानमस्य वार्षशतिको देवदत्तः। वार्षसहस्रिकः, पञ्च लोहितानि पञ्च लोहिन्यो वा मानमस्य पाञ्चलोहितिकम्, पाञ्चकलायिकम् । अनयोः संज्ञाशब्दत्वात् 'अनाम्न्यद्विः प्लुप्' (६-४-१४१) इति लुप् न भवति, अथ मासो मानमस्य वर्ष मानमस्येत्यादौ कस्मात्प्रत्ययो न भवति । न कालो मानग्रहणेन गुह्यते 'मानसंवत्सरस्य-' (७-४-१९) इत्यादौ मानग्रहणे सत्यपि संवत्सरग्रहणात् ।१६९।
न्या० स० मानम्-न काल इति मीयते येनाऽनया व्युत्पत्त्या कालस्यापि ग्रहणं प्राप्नोति । जीवितस्य सन् ॥ ६. ४. १७० ॥ ____ जीविर्तस्य यन्मानं ततः प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति स च सन् तस्य 'अनाम्न्य द्विः प्लुप्' (६-४-१४१) इति लुप्