________________
( पाद. ४. सू. १६३-१६६] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [१९५ पात्राचिताढकादीनो वा ।। ६. ४. १६३ ॥
पात्र आचित आढक इत्येतेभ्यो द्वितीयान्तेभ्यः पचत्संभवदवहरत्स्वर्थेषु ईनः प्रत्ययो वा भवति, पक्षे इकण पात्रं पचति संभवत्यवहरति वा पात्रीणः, पात्रिकः, पात्रीणा, पात्रिकी स्थाली, आचितीना, आचितिकी, आढकीना, आढकिकी। पात्रादयः परिमाणशब्दाः ।१६३।
दिगोरीनेकटौ वा ॥ ६. ४. १६४॥ ___ पात्राचिताढकान्तात् द्विगोद्वितीयान्तात्पचदादिषु त्रिष्वर्थेषु ईन इकट् इत्येतौ प्रत्ययौ वा भवतः, पक्षे इकण् । तस्य च 'अनाम्न्यद्विः प्लप' (६-४-१४१) इति लुप् नानॉविधानसामर्थ्यात् । द्वे पात्रे पचति संभवत्यवहरति वा द्विपात्रीणः, द्विपात्रिकः, द्विपात्रः, द्विपात्रीणा, द्विपात्रिकी, द्विपात्री, याचितीना, चितिकी, ब्याचिता । आचितान्तात् डोर्न भवति अबिस्ताचितकम्बल्यादिति प्रतिषेधात् । व्याढकीना, व्याढकिकी, व्याढकी, टकारो ङयर्थः।१६४।
न्या० स० द्विगो०-नन्विह ईन्ग्रहणं किमर्थं, ईनो वेति प्रकृतं तत्र लाघवात् द्विगोरिकद च वेति वक्तव्यं, एवं च द्विगोरिकट चकारादीनश्च वा भवतीति विज्ञायते ? अत्रोच्यते, इह च शब्देन ईने समुच्चीयमाने 'कुलिजाद्वा' ६-४-१६५ इत्युत्तरसूत्रे इकडेव विज्ञायेत, न त्वीन इत्युत्तरार्थमीनग्रहणम् ।
कुलिजादा लुप् च ॥ ६. ४. १६५ ॥ ___ कुलिजान्ताद्वि गोद्वितीयान्तात्पचदादिषु त्रिष्वर्थेषु ईन इकट इत्येतौ प्रत्ययौ वा भवतः, पक्षे इकण् । तस्य च लुप् वा भवति, तेन चातुरूप्यं संपद्यते । द्वे कुलिजे पचति संभवत्यवहरति वा द्विकुलिजीना द्विकुलिजिकी, पक्षे द्विकुलिजी, द्वैकुलिजिकी लुपि 'परिमाण'-(२-३-२३) इत्यादिना ङीः । अन्ये तु लुपविकल्पं न मन्यते, तन्मते त्रैरूप्यमेव ।१६५। . न्या० स० कुलि०- तस्य चेति तस्येकणो लुपू वा भवतीत्यर्थः, न चेने कटोरपि विकल्पेन विधानत्तयोः यदि हि लुबभीष्टा स्यात्तदा नित्यं विदध्यात् , न वाच्यं विधानादेव लुप् न भविष्यतीति. लपोऽपि विकल्पविधानेन पक्षे चरितार्थत्वात । वंशादेर्भाराद्धरदहदावहत्सु ॥ ६. ४. १६६ ॥
वंशादिभ्यः परो यो भारशब्दस्तदन्ताद् द्वितीयान्तानाम्नो हरति वहति आवहति चार्थे यथाविहितं प्रत्ययो भवति । वंशभारं हरति वहति आवहति वा वांशभारिकः, कौटभारिकः । वंशादेरिति किम् ? भारं वहति । भारादिति किम् ? वंशं हरति, अपरोऽर्थः । भारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो