________________
१९४ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. ४ सू० १५९-१६२ ] उपदा शुल्कं वा देयम् पञ्चको देवदत्तः, शत्यः, शतिकः, साहस्रः, प्रास्थिकः, द्रौणिकः । वृद्ध्यादिग्रहणं किम् । पञ्च मूल्यमस्मिन्नस्मै वा दीयते । १५८। पूरणार्द्धादिकः ।। ६. ४. १५९ ॥
पूरणप्रत्ययान्तादर्धशब्दाच्च तदिति प्रथमान्तादस्मिन्नस्मै वा दीयत इत्यर्थयोरिकः प्रत्ययो भवति यत्तत्प्रथमान्तं वृद्ध्यादि चेत्तद्भवति, इकणिकटोरपवादः । द्वितीयमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयम् द्वितीयकः, तृतीयिकः, पञ्चमिकः, षष्ठिकः, अर्ध- अधिकः, अधिका स्त्री । अर्धशब्दो रूपका रूढः । १५९।
न्या० ० पू० - इकणिकटोरिति पूरणप्रत्ययान्तेभ्यः पूर्वेणेकणू, अर्द्धात्तु 'कंसार्द्धात् ' ६-४- १३५ इतीकट् ।
भागाद्येकौ ॥ ६. ४. १६० ॥
भागशब्दात्तदस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयमिति विषये य इक इत्येतौ प्रत्ययौ भवतः, इकणोऽपवादौ । भागोऽस्मिन्नस्मै वा वृद्ध्यादीनामन्यतमं देयं भाग्यः, भागिक, भागिका स्त्री । भागशब्दोऽपि रूपकार्थस्य वाचकः । १६० ।
तं पचति द्रोणाद्वाञ् ।। ६. ४. १६१ ।।
तमिति द्वितीयान्ताद्रोणशब्दात्पचत्यर्थे अञ् प्रत्ययो वा भवति, पक्षे इण् । द्रोणं पचति द्रौणः, द्रौणिकः, द्रौणी द्रोणिकी स्थाली गृहिणी वा, द्वौ द्रोणौ पचति द्विद्रोणी । ' अनाम्न्यद्विः प्लुप्' ( ६-४-१४१) इति अञिकणोर्लुप् ।१६१।
संभवदवहरतोच ॥ ६. ४. १६२ ।।
तमिति द्वितीयान्तान्नाम्नः पचति संभवदवहरतोश्चार्थयोर्यथाविहितमिकणादयो भवन्ति । तत्राधेयस्य प्रमाणानतिरेकेण धारणं संभवः, अतिरेकेणावहारः । प्रस्थं पचति संभवत्यवहरति वा प्रास्थिकः कटाहः, प्रास्थिकी स्थालो, एवं खारीकः, कौडविकः, संभवतिः अकर्मकः सकर्मकश्च संभवति तत्र सकर्मक इह ग्राह्यः । संभवत्यवगृह्णातीत्यर्थः । चकारः पचता संभवदवहरतोः समुच्चयार्थः । तेनोत्तरत्रार्थत्रयस्याप्यनुवृत्तिः ॥ १६२ ॥ |
न्या० स० संभ०-अकर्मक इति यथा प्रस्थोऽत्र संभवति माति नातिरिच्यत इति अकर्मकः, प्रस्थमयं संभवत्यवगृह्णाति न निर्वमति नातिरेचयतीति सकर्मकः ।
समुच्चयार्थ इति न त्वाकर्षणार्थ:, तेन चानुकृष्टमित्यस्याप्रवृत्तिः ।