________________
[पाद. ४. सू. १५६-१५८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [ १९३ तु सर्वतः, आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः' इति संख्यापरिमाणयोविशेषः । अश्वादि, आश्विकः, गाणिकः, वासुकः । अश्व, गण, वसु, वस्त्र, ऊर्णा, उमा, भङ्गा, वर्षा, अश्मन् इत्यश्वादिः ।१५५। ____ न्या० स० द्विस्व० -ऊर्ध्वमानमिति इह संख्याग्रहणं किमर्थं परिमाणग्रहणेनैव संख्या गृह्यते, संख्या हि परिमाणं भवति, परिमीयते परिच्छिद्यते इयत्तावधार्यते येन तद्वि परिमाणं संख्ययापि चेयत्तावधार्यते ? इत्याह-संख्येति । पृथिवीसर्वभूमेरीशज्ञातयोश्वाञ् ॥ ६. ४. १५६ ॥
पृथिवीसर्वभूमिशब्दाभ्यां षष्ठ्यन्ताभ्यामीशज्ञातयोस्तस्य हेतुस्संयोग उत्पात इत्यस्मिन् विषये चाञ् प्रत्ययो भवति । ईशः स्वामी, पृथिव्या ईशः पार्थिवः, सर्वभूमेः सार्वभौमः सर्वभूमेरनुशतिकादित्वादुभयपदवृद्धिः । पृथिव्या ज्ञातः पार्थिवः, कर्तरि षष्ठी संबन्धविवक्षायां वा एवं सार्वभौमः। पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः, सार्वभौमः, ईशज्ञातयोरिति द्विवचनं हेतुविशेषणत्वशङ्का व्यवच्छेदार्थम् ।१५६।
न्या० स० पृथिवीसर्वभूमे०-व्यवच्छेदार्थमिति हेतुविशेषणत्वे ति संयोग उत्पात ईश ज्ञातेत्यर्थचतुष्टयं विज्ञायेत, ततश्च स चेद्धेतुः संयोग उत्पात ईशो ज्ञातो वा भवतीत्यर्थः स्यात् । लोकसर्वलोकाज्ज्ञाते ॥ ६. ४. १५७ ॥
लोकसर्वलोकशब्दाभ्यां तस्येति षष्ठयन्ताभ्यां ज्ञातेऽर्थे यथाविहितमिकण प्रत्ययो भवति । लोकस्य ज्ञातो लौकिकः, सार्वलौकिकः। सर्वलोकशब्दस्यानुश तिकादित्वादुभयपदवृद्धिः ।१५७।। तदत्रास्मै वा वृद्धयायलाभोपदाशुल्क देयम् ॥ ६. ४. १५८॥
तदिति प्रथमान्तादत्रेति सप्तम्यर्थे अस्मै इति चतुर्थ्यर्थे वा यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेद्वद्धिरायो लाभ उपदा शुल्क वा देयं भवति । अधमणेनोत्तमाय गृहीतधनातिरिक्तं देयं वृद्धिः, ग्रामादिषु स्वामिग्राह्यो भाग आयः । पटादीनामुपादानं मूल्यातिरिक्त प्राप्तं द्रव्यं लाभः, उपदा उत्कोचः, लञ्च उत्कोट इति यावत्, वणिजां रक्षानिर्देशो राजभागः शुल्कम्, पञ्चास्मिन् शते वृद्धिः पञ्चकं शतम्, पञ्चास्मिन् ग्रामे आय: पञ्चको ग्रामः, पञ्चास्मिन् पटे लाभः पञ्चकः पटः, पञ्चास्मिन् व्यवहारे उपदा पञ्चको व्यवहारः । पञ्चास्मिन् शते शुल्कं पञ्चकं शतम् । एवं शतमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयम् शत्यं शतिकम् । साहस्रम्, प्रास्थिकम्, द्रौणिकम्, अस्मै, पञ्चास्मै देवदत्ताय वृद्धिरायो लाभ