________________
१९२ ] बृहवृत्ति-लघुन्याससवलिते [पाद. ४ सू. १५२-१५५ । वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम्, द्रौणिकम्, मौद्रिकम्, शत्यम्,, शतिकम्, खारीकम् ।१५१। वातपित्तश्लेष्मसंनिपाताच्छमनकोपने ॥ ६. ४. १५२ ।।
वातादिभ्यस्तस्येति षष्ठचन्तेभ्यः शमने कोपने चार्थे यथाविहितमिकण प्रत्ययो भवति । शाम्यति येन तच्छमनम, कुष्यति येन तत्कोपनम, वातस्य शमनं कोपनं वा वातिकम, पैतिकम, श्लैष्मिकम् सांनिपातिकम् । पथ्यमपथ्यं च द्रव्याद्येवमभिधीयते प्रकरणात्तु विशेषगतिः ।१५२।
हेतौ संयोगोत्पाते ॥ ६.४. १५३ ॥ ___ तस्येति षष्ठचन्ताद्धतावर्थे यथाविहितं प्रत्ययो भवति योऽसौ हेतुः स चेत् संयोग उत्पातो वा भवति । हेतुनिमित्तम्, संयोगः संबन्धः। प्राणिनां शुभाशुभसूचको महाभूतपरिणाम उत्पातः । शतस्य हेतुरीश्वरसंयोमः शत्यः शतिकः, साहस्रः, उत्पात सोमग्रहणस्य हेतुरुत्पातः सोमनहणिको भूमिकम्पः, सांग्रामि कमिन्द्रधनुः, सौभिक्षिकः, परिवेषः, शतस्य हेतुर्दक्षिणाक्षिस्पन्दनम् शत्यं शतिकम्, साहस्रम् । संयोगोत्पात इति किम् ? शतस्य हेतुश्चैत्रः ।१५३। पुत्रायेयौ ॥६. ४. १५४॥
पुत्रशब्दात्तस्येति षष्ठयन्ताद्धेतावर्थे य ईय इत्येतो प्रत्ययौ भवतः स चेद्धेतुः संयोग उत्पातो वा भवति । पुत्रस्य हेतुः संयोम उत्पातो वा पुत्र्यः, पुत्रीयः ।१५४। द्विस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणावादेः ।। ६. ३. १५५ ॥
संख्यापरिमाणाश्वादिवजिताद्विस्वरान्नाम्नो ब्रह्मवर्चसशब्दाच्च तस्येति षष्ठयन्ताद्धेतावर्थे यः प्रत्ययो भवति स चैद्धेतुः संयोग उत्पातो वा भवति, इकणादीनामपवादः । धनस्य हेतुः संयोग उत्पातो वा धन्यः, यशस्यः, आयुष्यः, वात्या विद्युत्, ब्रह्मवर्चसस्य हेतुः संयोग उत्पातो वा ब्रह्मवर्चस्यः । कथं गोर्हेतुः संयोग उत्पातो वा गव्यः ? द्विस्वराभावात् 'गोः स्वरे यः' (६-१-२७) इति भविष्यति । द्विस्वरेति किम् ? विजयस्य हेतुः संयोग उत्पातो वा वैजयिकः, आभ्युदयिकः । ब्रह्मवर्चसग्रहणमद्विस्वरार्थम, असंख्यापरिमाणाश्वादेरिति किम् ? संख्या, पञ्चानां हेतुः संयोग उत्पातो वा पञ्चकः, सप्तकः, परिमाण, प्रास्थिकः, खारीकः । 'ऊर्ध्वमानं किलोन्मानं परिमाणं