________________
पाद. ४. सू. १४८ - १५१] श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः [ १९१
पणपादमाषाद्यः ।। ६. ४. १४८ ।।
पणपादमा
इत्येवमन्ताद्विगोरार्हदर्थे यः प्रत्ययो भवति, विधानसामर्थ्यान्न लुप् । द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम्, त्रिपण्यम्, अध्यर्धपण्यम्, अर्धषष्ठपण्यम्, द्विपाद्यम्, त्रिपाद्यम्, अध्यर्धपाद्यम्, माषपणसाहचर्यात्पादः परिमाणं गृह्यते न प्राण्यङ्गम् । तेन 'हिमहतिकाषिये पद' ( ३-२-९६) इति पद्भावो न भवति तत्र प्राण्यङ्गस्यैव ग्रहणात् यद्वा पादसंबन्धो यकारस्तत्र गृह्यते अयं तु द्विगुसंबन्धीति न भवति । द्विमाष्यम्, त्रिमाष्यम्, अध्यर्धमाष्यम् ।१४८
खारीकाकणीभ्यः कच् ॥ ६. ४. १४९ ॥
खारीकाकणी इत्येवमन्तात् द्विगोर्बहुवचनात्केवलाभ्यां च खारीकाकणीभ्यामादर्थे कच् प्रत्ययो भवति विधानसामर्थ्याच्च न लुप् । द्वाभ्यां खारीभ्यां क्रीतं द्विखारीकम्, त्रिखारीकम्, अध्यर्धखारीकम्, अर्धतृतीयखारीकम्, एवं द्विकाकणीकस्, त्रिकाकणीकम् अध्यर्धकाकणीकस्, अर्धतृतीयकाकणीकम् । केवलाभ्याम्, खारीकम्, काकणीकम् चकारो 'न कचि ' (२-४- १०४ ) इति प्रतिषेधार्थः । १४९।
मूल्यैः क्रीते ॥ ६. ४. १५० ॥
मूल्यवाचिनो निर्देशादेव तृतीयान्तात् क्रीतेऽर्थे यथाविहितमिकणादयः प्रत्यया भवन्ति । प्रस्थेन क्रीतं प्रास्थिकम्, सप्तत्या साप्ततिकम्, आशीतिकम्, नैष्किकम् पाणिकम्, पादिकम्, त्रिंशकम्, विंशकम्, द्विकम्, त्रिकम्, शत्यम्, शतिकम् । मूल्यैरिति किम् ? देवदत्तेन क्रीतम्, पाणिना कीतम् । वृत्तौ संख्याविशेषानवगमात् द्विवचनबहुवचनान्तान्ना भवति । प्रस्थाभ्यां प्रस्थैर्वा क्रीतमिति, यत्र तु संख्याविशेषावगमे प्रमाणमस्ति तत्र भवत्येव । द्वाभ्यां क्रीतं द्विकम्, त्रिकम्, द्वाभ्यां प्रस्थाभ्यां क्रीतं द्विप्रस्थम्, त्रिप्रस्थम्, यथा मुद्रेः क्रीतं मौद्रिकम्, माषिकम्, न ह्येकेन मुद्धेन माषेण वा क्रयः संभवति । १५० ।
::
न्या० स० मूल्यै:- मूल्यैरिति बहुवचननिर्देशो लाघवार्थः, स्वरूपग्रहणव्युदासार्थश्च । "ख्याविशेषाऽनवगमादिति प्रत्यये सति न ज्ञायते वृत्तिर्द्धिवचनेन बहुवचनेन वा कृतेत्येकवचनान्तादेव प्रत्यय इत्यर्थः ।
तस्य वा ।। ६. ४. १५१ ॥
तस्येति षष्ठ्यन्ताद्वापेऽर्थे यथाविधि इकणादयो भवन्ति, उप्यतेऽस्मिन्निति