________________
१९० ]
बृहद्वृत्ति - लघुन्यास र्सवलिते
सुवर्णकार्षापणात् ॥ ६. ४. १४३ ॥
...
सुवर्णान्तत्कार्षापणान्ताच्च द्विगोः परस्यार्हदर्थे विहितस्य प्रत्ययस्य वा लुप् भवति न तु द्वि: । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसुवर्णम्, द्विसौवणिकम्, अध्यर्धसुवर्णम्, अध्यर्धसौर्वाणकम्, द्विकार्षापणम्, द्विकार्षापणिकम्, द्विप्रति, द्विप्रतिकम्, अध्यर्यकार्षापणम्, अध्यर्धकार्षापणिकम्, अध्यर्धप्रतिकम् | १४३ | द्वित्रिवहोर्निष्कबिस्तात् ॥ ६. ४. १४४ ॥
[ पाद. ४ सू० १४३ - १४७ ]
द्वित्रिबहु इत्येतेभ्यः परो यो निष्कबिस्तशब्दौ तदन्तात् द्विगोरार्हदर्थे उत्पन्नस्य प्रत्ययस्य लुप् वा भवति न तु द्विः । द्विनिष्कम्, द्विनैष्किकम्, त्रिनिष्कम्, त्रिनैष्किकम्, बहुनिष्कम्, बहुनैष्किकम्, द्विबिस्तम्, द्विबैस्तिकम् त्रिबिस्तम्, त्रैबैस्तिकम्, बहुबिस्तम्, बहुबैस्तिकम् ॥ १४४॥
शताद्यः ।। ६. ४. १४५ ॥
शतान्तात् द्विगोरार्हदर्थे यः प्रत्ययो वा भवति, पक्ष संख्यालक्षणः कः तस्य लुप् भवति, अस्य तु विधानसामर्थ्यान्न भवति । द्वाभ्यां शताभ्यां क्रीतम् द्विशत्यम्, द्विशतम्, अध्यर्धशत्यम्, अध्यर्धशतम्, अर्धषष्टशत्यम्, अर्धषष्ठशतम् । ।१४५ ।
शाणात् ।। ६. ४. १४६ ।।
शाणान्ताद्विगोरार्हदर्थे यः प्रत्ययो वा भवति, पक्षे इकण्, तस्य लुप् । अस्य तु न भवति विधानसामर्थ्यात् । पञ्चशाणम्, पञ्चशाण्यम्, अध्यर्धशाण्यम्, अध्यर्धशाणम्, अर्धपञ्चमशाण्यम्, अर्धपञ्चमशाणम्, योगविभाग उत्तरार्थः ।१४६।
द्वित्र्यादेर्याण वा ।। ६. ४. १४७ ॥
द्वित्रि इत्येतत्पूर्वी यः शाणशब्दस्तदन्ताद्विगोरार्हदर्थे यअण् इत्येतौ प्रत्ययो वा भवतः, बाग्रहणमुत्तरत्र वानिवृत्त्यर्थम् । द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यम्, द्वैशाणम् । पक्षे इकण् तस्य लुप् द्विशाणम्, एवं त्रिशाण्यम्, वैशाणम्, त्रिशाणम्, एवं च त्रैरूप्यं भवति ॥ १४७ ॥
न्या० स० द्वित्र्यादेर्याण्०- द्विय्यादेर वेति क्रियतां द्वित्र्यादिर्यः शाणशब्दस्तदन्तादनेनाण् शाणाद वेति यः विकल्पपक्षे चेकणिति रूपत्रयं सिध्यति, उच्यते, तक्र कौण्डिन्यन्यायेन प्रत्ययस्य बाधा आशङक्येत । यप्रत्ययबाधकोऽणू वा भवति तन्निवृत्त्यर्थं यग्रहणम् ।