________________
[पाद ४. सू. १४०-१४२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १८९ दिगोरीनः ॥ ६. ४. १४० ॥
विंशतिकशब्दान्तात् द्विगोराहदर्थे ईनः प्रत्ययो भवति, अञोऽपवादः । विधानसामर्थ्याल्लुप् न भवति । द्विविंशतिकोनम्, त्रिविंशतिकीनम्, अध्यर्धविशतिकीनम्, अर्धपञ्चविंशतिकीनम् ।१४०।
अनाम्न्यद्धिः प्लुप् ॥ ६. ४. १४१ ॥
द्विगोः समासादार्हदर्थे उत्पन्नस्य प्रत्ययस्य पिल्लुप् सकृद्भवति न तु द्विः अनाम्नि न चेत्प्रत्ययान्तं कस्यचिन्नाम भवति । द्वाभ्यां कंसाभ्यां द्विकस्या चा क्रीतम् द्विकंसम्, त्रिकंसम्, अध्यर्धकसम्, अर्धपञ्चकंसम् । द्विशूर्पम्, त्रिशूर्पम् । अध्यर्धशूर्पम् । अर्धपञ्चमशूर्पम् । अद्विरिति किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, अञ्लुप् । द्विशूर्पण क्रीतं द्विशौपिकम् । अनाम्नि इति किम् ? पञ्च लोहिन्यः परिमाणमस्य पाञ्चलोहितिकम्, 'जातिश्च णि'-(३-२-५१) इत्यादिना पुवद्भावः, पञ्च कलायाः परिमाणमस्य पाञ्चकलायिकम् । परिमाणविशेषनाम्नी एते । अत एव 'मानसंवत्सर'(७-४-१९) इत्यादिना नोत्तरपदवृद्धिः, लपः पित्त्वात् पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्ग इत्यत्रेकणो लुपि पुवद्भावो भवति । संख्यान्तात् द्विगोल पं नेच्छन्त्येके, द्वाभ्यां षष्टिभ्यां क्रीतं द्विषाष्टिकम्, त्रिषाष्टिकम् ।१४१।
न्या० स० अना०-अध्यर्द्धकसम् , अर्धपञ्चमकंसमिति 'कसमास' १-१-४१ इति 'अर्धपूर्व' १-१-४२ इति च संख्यावत्त्वाद् द्विगौ 'संख्यादेश्च' ६-४-८० इत्यतिदेशात् 'कॅसार्धात्' ६-४-१३५ ( इति) इकट, एवं पूर्वोदाहरणद्वयेपि द्विशूर्पमित्यादौ ‘द्विशदिवाञ्' विकल्पपक्षे इकण च द्विशौपिकमिति, 'संख्यादेश्च' ६-४-८० इत्यत्राऽलुच इति भणनाल्लुचि सत्यां शूर्पाद्वाञ् न भवति, 'मानसंवत्सर' ७-४-१९ इत्युत्तरपदवृद्धिः ।।
पुंभावो भवतीति ‘क्यङ्मानि' ३-२-५० इत्यनेन पुंभावे कृते 'यत्राः '६-१-१२६ इति यत्रो लुप् । नवाणः ॥६. ४. १४२ ॥
द्विगोः परस्याहदर्थे विहितस्याणः पिल्लुप् वा भवति न तु द्विः । द्विसहस्रम् द्विसाहस्रम्, अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्, अर्धषष्ठसहस्रम्, अर्धषष्ठसाहस्रम्, द्विशतमानम्, द्विशातमानम्, अध्यर्धशतमानम्, अध्यर्धशातमानम्, अर्धषष्ठशतमानम्, अर्धषष्ठशातमानम् । अण इति किम् ? द्वौ द्रोणौ पचति द्विद्रोणः। अध्यर्धद्रोणः, पूर्वेण नित्यमेव लुप् ।१४२।।
न्या० स० नवा०-द्विशातमानमिति द्वाभ्यां शतमानाभ्यां क्रीतं 'सहस्रशतमानादणू' ६-४-१३६ सर्वेष्वत्र प्रकरणे 'मानसंवत्सर' ७-४-१९ इत्युत्तरपदवृद्धिः ।