________________
[ पाद ४. सू. १२३-१२८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १८५ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ॥ ६. ४. १२३ ॥
स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च यथासंख्यं तदस्य प्रयोजनमित्यस्मिन् विषये यः प्रत्ययो लुप् च भवतः, स्वर्गादिभ्यो यः । स्वर्गः प्रयोजनमस्य स्वर्ग्यम्, यशस्यम्, आयुष्यम्, काम्यम्, धन्यम्, स्वस्तिवाचनादिभ्य इकणो लुप् । स्वस्तिवाचन प्रयोजनमस्य स्वस्तिवाचनम्, शान्तिवाचनम्, पुण्याहवाचनम्, स्वर्गादयः स्वस्तिवाचनादयश्च प्रयोगगम्याः । गणद्वयोपादानाद्वचनभेदेऽपि यथासंख्यम् ।१२३। समयात् प्राप्तः ॥६. ४. १२४ ॥
सोऽस्येत्यनुवर्तते । समयशब्दात्प्रथमान्तादस्येति षष्ठ्यर्थे इकण प्रत्ययो भवति योऽसौ प्रथमान्तः प्राप्तश्चेत्स भवति । समयः प्राप्तोऽस्य सामायिक कार्यम्, उपनतकालमित्यर्थः ।१२४। ऋत्वादिभ्योऽण् ॥ ६. ४. १२५॥
ऋतु इत्येवमादिभ्यः सोऽस्य प्राप्त इत्यर्थे अण् प्रत्ययो भवति । ऋतुः प्राप्तोऽस्य आर्तवं पुष्पफलम्, उपवस्ता प्राप्तोऽस्य औपवस्त्रम्, प्राशिता प्राप्तोऽस्य प्राशिवम् । ऋत्वादयः प्रयोगगम्याः ।१२५।
न्या० स० ऋत्वा-औपवस्त्रमिति उपोषितपारणके यद्भक्ष्यद्रव्यं तदोपवस्त्रं यद्वैदिकम्'माषान्मधुमसुरांश्चवर्जयेदोपवस्त्रके' पुरुषस्तूपवस्ता । प्राशित्रमिति बालस्य यत्प्रथमं भोजनं तदुच्यते प्राशित्रम् । कालाद्यः ॥६. ४. १२६ ॥
कालशब्दात्सोऽस्य प्राप्त इत्यर्थे यः प्रत्ययो भवति। काल: प्राप्तोऽस्य काल्यस्तापसः, काल्या मेघाः ।१२६। दीर्घः ॥ ६. ४. १२७ ॥
कालशब्दात्मप्रथमान्तादस्येति षष्ठ्यर्थे इकण प्रत्ययो भवति योऽसौ प्रथमान्तः स चेद्दी? भवति । दीर्घः कालोस्य कालिकमृणम्, कालिक वैरम्, कालिकी संपत्, योगाविभागादिकण् । यविधाने हि कालाद्यो दोघश्चेत्येकमेव सूत्रं क्रियेत ।१२७॥ । आकालिकमिकश्चाद्यन्ते ॥ ६. ४. १२८ ॥
आकालिकमिति शब्दरूपमिकान्तमिकणन्तं च निपात्यते, आकालशब्दादिक इकण च भवत्यर्थे भवतीत्यर्थः । आद्यन्ते आदिरेव यधन्तो गम्यते ।