________________
१८४J
बृहद्वृत्ति-लघुन्याससंवलिते [ पा० ४. सू० ११८-१२२ ] एकागासचौरे ।। ६. ४. ११८ ॥
एकागार शब्दात्तदस्य प्रयोजन मित्यस्मिन् विषये इकण् प्रत्ययो भवति चौरे यत्तदस्येति निर्दिष्टं स चेत् चौरौ भवति । एकमसहाय मगारं प्रयोजनमस्य ऐकामारिकश्चौरः, ऐकागारिकी, चौरे नियमार्थं वचनम् । तेनान्यत्र न भवति । एकागारं प्रयोजनमस्य भिक्षोरिति वाक्यमेव ।११८।
न्या० स० एका०-नियमार्थमिति ‘प्रयोजनम्' ६-४-११७ इत्येव सिद्धत्वात् । चूडादिभ्योऽण् ॥ ६. ४. ११९ ।।
चुडादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषयेऽण् प्रत्ययो भवति । चूडा प्रयोजनमस्य चौडम्, चूला चौलम्, उपनयनम् औपनयनम, श्रद्धा श्राद्धम्,चूडादयः प्रयोमगम्याः ।११९। विशाखाषाढान्मन्थदण्डे ॥ ६. ४. १२० ॥
विशाखा अषाढा इत्येताभ्यां तदस्य प्रयोजनमित्यस्मिन् विषयेऽण प्रत्ययो भवति, यथासंख्यं मन्थे दण्डे चाभिधेये । मन्थो विलोडनं दण्डो वा, विशाखा प्रयोजनमस्य वैशाखो मन्थः, आषाढा आषाढे अषाढाः प्रयोजनमस्य आषाढो दण्ड: ।१२०॥ उत्थापनादेरीयः ॥ ६. ४. १२१ ॥
उत्थापन इत्येवमादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये ईयःप्रत्ययो भवति । उत्थापनं प्रयोजनमस्योत्थापनीयः, उपस्थापनीय:, उत्थापन, उपस्थापन, अनुप्रवचन, अनुवाचन, अनुवदन, अनुवादन, अनुपान, अनुवासन, आरम्भण, समारम्भण इत्युत्थापनादिः १२१
विशिरुहिपदिपूरिसमापेरनात् सपूर्वपदात् ॥ ६. ४. १२२ ॥ _ विशिरुहिपदिपूरिसमापि इत्येतेभ्योऽनप्रत्ययान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः प्रत्ययो भवति । विशि, गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयम, संवेशनीयम्, अनुवेशनीयम्, अनुप्रवेशनीयम्, समावेशनीयम् । रुहि प्रासादारोहणीयम्, आरोहणीयम्, प्ररोहणीयम्, अनुरोहणीयम् अन्वारोहणीयम्, पदि-अश्वप्रपदनीयम्, गोप्रपदनीयम्, पूरि-प्रपापूरणीयम्, महापूरणीयम्, समापि-अङ्गसमापनीयम्, श्रुतस्कन्धसमापनीयम्, व्याकरणसमापनीयम् ।१२२।