________________
पाद. ४. सू. ११३-११७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [ १८३ मासाद्वयसि यः ॥ ६. ४. ११३ ॥ ___ मासशब्दान्ताद्विगोभू तेऽर्थे यः प्रत्ययो भवति वयसि गम्यमानो। द्वौ मासौ भूतो द्विमास्यः, त्रिमास्यो दारकः। वयसीति किम् ? द्वैमासिको व्याधिः, त्रैमासिको व्याधिः, द्वैमासिको नायकः । भूत इत्येव ? द्वौ मासौ भावी द्वैमासिको युवा ।११३। ईनञ् च ॥ ६. ४. ११४ ॥
द्विगोरिति निवृत्तम् योगविभागात, मासशब्दाद्भतेऽर्थे ईनञ् चकाराद्यश्च प्रत्ययो भवति वयसि गम्यमाने । मासं भूतो मासीन: मास्यो दारकः, ञकारो वद्धिहेतुत्वेन वद्भावाभावार्थः। मासीना स्वसाऽस्य मासीनास्वसृकः । वयसीत्येव ? मासिको नायकः ।११४। षण्मासाद्ययणिकण् ॥ ६. ४. ११५॥
षण्मासशब्दात्कालवाचिनो भूतेऽर्थे य यण् इकण् इत्येते प्रत्यया भवन्ति वयसि गम्यमाने । षण्मासान् भूतः षण्मास्यः, षाण्मास्यः, षाण्मासिकः । भूत इत्येव ? षण्मासान् भावी । वयसीत्येव ? पाण्मास्यः षण्मासिको नायकः ।११५।
न्या० स० षण्मा०-षण्मासाद्ययण वेति सिद्धे इकण ग्रहणे व्यावृत्त्युदाहरणे इकण् निवृत्त्यर्थं, अत्त एव व्यावृत्त्युदाहरणे वाक्यमेव दर्शितम् । सोऽस्य ब्रह्मचर्यतद्वतोः ॥ ६. ४. ११६ ॥
स इति प्रथमान्तात्कालवाचिनोऽस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति ब्रह्मचर्य तद्वति चाभिधेये यत्तदस्येति निर्दिष्टं तच्चेद्ब्रह्मचर्यम् ब्रह्मचारी वा भवतीत्यर्थः। मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम्, आर्धमासिकम्, सांवत्सरिकम् । मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी, मासं ब्रह्मचर्यमस्येत्यर्थः । एवमार्धमासिकः, सांवत्सरिकः ।११६। प्रयोजनम् ॥ ६. ४. ११७ ॥
सोऽस्येति वर्तते, स इति प्रथमान्तादस्येति षष्ठ्यर्थे इकण प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्प्रयोजनं स्यात्, प्रयोजनं प्रयोजकम् प्रवर्तनम् जनकमुत्पादकम् । जिनमहः प्रयोजनमस्य जैनमहिकम्, ऐन्द्रमहिकम्, आभिजनिक गोन्यतिकम 1991