________________
१८२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ११०-११२ रात्र्यहःसंवत्सराच द्विगोर्वा ।। ६. ४. ११० ॥
रात्रि अहन संवत्सर इत्येतदन्तात्समाशब्दान्ताच्च द्विगोस्तेन निर्वत इत्यादिपञ्चकविषये ईनः प्रत्ययो वा भवति । द्वाभ्यां रात्रिभ्यां निवृत्तो द्वे रात्री भूतो भावी वा द्वाभ्यां रात्रिभ्यां भृतोऽधीष्टो वा द्विरात्रीण:, त्रिरात्रीणः, एवं यहीनः, द्विसंवत्सरीणः, द्विसमीनः, पक्षे इकण् द्वैरात्रिकः, द्वैयहिकः, द्वैयहिक इति तु व्यहशब्दात्समाहारद्विगोरिकणि भवति । द्विसांवत्सरिकः, 'मानसंवत्सरस्य' (७-४-१९) इत्यादिनोत्तरपदवृद्धिः । द्वैसमिकः, रात्र्यन्तादहरन्ताच्च परमपि समासान्तं बाधित्वा अनवकाशत्वादीन एव भवति तथा च समासान्तसंनियोगे उच्यमानः 'सर्वांशसंख्याव्ययात् ' (७-३-११८) इत्यह्लादेशो न भवति । समान्तात्पूर्वेण नित्ये प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ।११०।
न्या० स० रात्र्य-समासान्तं बाधित्वेति रात्रिशब्दात् ‘संख्यातेक' ७-३-११९ इत्यनेन प्राप्त, अह्नस्तु 'सर्वाश' ७-३-११८ इत्यनेन । अनक्काशत्वादिति अन्यथा रात्र्यन्ताहरन्ताभावान्न भवति, एकदेशेत्यपि नोपतिष्ठते न्यायानामनित्यत्वात् । वर्षादश्व वा ॥६. ४. १११ ॥
वर्षशब्दो यः कालवाची तदन्ताद्विगोस्तेन निर्वृत्त इत्यादिपञ्चकविषयेऽकारश्च कारादीनश्च वा भवति, पक्षे इकण्, एवं च त्रैरूप्यं भवति। द्वाभ्यां वर्षाभ्यां निवृत्तो द्वौ वषौं द्वे वर्षे वा भूतो भावी वा द्वाभ्यां वर्षाभ्यां भतोऽधीष्टो वा द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः, त्रिवर्षः, त्रिवर्षीणः, त्रिवार्षिकः । 'संख्याधिकाभ्यां वर्षस्याभाविनि' (७-४-१८) इत्युरपदवृद्धिः। भाविनि तु प्रतिषेधात् द्वैवार्षिकः । त्रैवर्षिकः ।११॥ प्राणिनि भूते ॥ ६. ३. ११२ ॥
कालवाचिवर्षशब्दान्तात् द्विगोभू तेऽर्थे अः प्रत्ययो भवति स चेद्भतः प्राणी भवति । द्वे वर्षे भूतो द्विवर्षों दारकः, त्रिवर्षों वत्सः। प्राणिनीति किम् ? द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः सरकः । भूत इति किम् ? शेषेष्वर्थेष पूर्वेण विकल्प एव । द्विवर्षः, द्विवर्षीणः, द्विवार्षिको मनुष्यः। भाविन्यपि केचिदिच्छन्ति, एवमुत्तरेष्वपि त्रिषु । पूर्वेण विकल्पे प्राप्ते नित्यार्थो विधिः ।११२।