________________
१८६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १२९-१३० ] कथं चादिरेवान्तो भवति ? यस्मिन्काले यत् प्रवृत्तमनध्यायादि तस्मिन्नेव काले प्रत्यावृत्ते यदि तदुपरमेत, यदि वा यस्मिन्नेव काले क्षणादौ विद्युदादेर्जन्म यदि तस्मिन्नेव काले विनश्यन्नात्मलाभकालादूर्ध्वं तिष्ठेदित्यर्थः । आकालं भवति आकालिकोऽनध्यायः पूर्वेधुर्यस्मिन्काले तृतीये चतुर्थे वा यामे प्रवृत्तः पुनरपरेधुरपि आ तस्मात्कालाद्भवन् आकालिकोऽनध्याय उच्यते । आकालिका आकालिकी वा वृष्टिः । स्त्रियामिकेकणोविशेषः । आकालिका आकालिकी वा विद्युत्, आजन्मकालमेव भवन्ती जन्मानन्तरविनाशिनी ऊर्ध्वमननुवर्तमाना एवमुच्यते । एवं च द्वेधाप्यादिरेवान्तो भवति । आद्यन्त इति किम् ? सर्वकालभाविनि माभूत्, निपातनमादावन्ते चेति द्वन्द्वनिवृत्त्यर्थम् । अथवा निपातनस्येष्टविषयत्वात् समानकालशब्दस्याकालादेशः । आद्यन्त इति च द्वन्द्वः प्रकृतिविशेषणम् । आद्यन्तयोर्वर्तमानात्समानकालशब्दात् प्रथमान्तादस्येति षष्ठ्यर्थे इकेकणौ प्रत्ययौ निपात्येते समान कालशब्दस्य चाकालादेशः । समानकालावाधन्तावस्याकालिकोऽनध्यायः । आकालिका आकालिकी वा विद्युत्, समानकालताचाद्यन्तयोः पूर्ववद्वेदितव्या ।१२८।।
न्या० स० आका०-तस्मिन्नेवेति इह यद्यपि गतः कालो न प्रत्यावर्त्तते तथापि सामान्येन तुल्यः कालः स एवोच्यते, तथा च वक्तारो भवन्ति । अद्य यस्मिन्काले भवानायातः श्वः सोऽपि तस्मिन्नेव काले समागमिष्यति ।
द्वंद्वानिवृत्त्यर्थमिति 'यद्येवमाकालिकमिति किमर्थं, आकालादिकश्चाद्यन्त इत्युच्यमानेऽपि सिध्यति ?
उच्यते निपातनाभावे आद्यन्त इति द्वंद्वाऽपि विज्ञायते, ततश्चाकालादिकश्च भवति, आदौ अन्ते च गम्यमाने इत्यपि स्यात् , ततश्च यत् कुतश्चिदारूब्धमा कुतश्चित्कालादाभवति तत्रापि प्रत्ययः प्रसज्येत । त्रिंशदिशतेर्डकोऽसंज्ञायामाईदर्थे ॥ ६. ४. १२९ ॥
त्रिंशद्विशति इत्येताभ्यामा अर्हदर्थाद्योऽर्थो वक्ष्यते तस्मिन् डकः प्रत्ययो भवति कापवादः असंज्ञायां विषये न चेत्प्रत्ययान्तं कस्यचित्संज्ञा भवति । त्रिंशता क्रीतं त्रिंशकम्, विंशत्या क्रीतं विंशकम्, त्रिशतमर्हति त्रिंशकः, विशकः, आईदर्थ इत्यभिविधावाकारः । असंज्ञायामिति किम् ? त्रिंशत्कम्, विंशतिकम् ।१२९।
न्या० स० त्रिंश-आर्हदर्थे इति अर्हश्चासावर्थश्च, अहंदर्थात् आईदर्थ तस्मिन् । संख्याडतेश्वाशत्तिष्टेः कः ॥ ६. ४. १३०॥ शदन्तत्यन्तष्टयन्तजितायाः संख्याया डतिप्रत्ययान्ताच्च शब्दाच्चकारा