________________
१७२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ६५-६८ ]
वेष्टयादिभ्यः ॥ ६. ४. ६५ ।। ____ इष्टि इत्येवमादिभ्यस्तदस्य प्रहरणमित्यस्मिन्विषये टीकण वा भवति, पक्षे प्रहरणमितीकण् । इष्टिः प्रहरणमस्य ऐष्टीकः, ऐष्टीकी, ऐष्टिकः, ईषा प्रहरणमस्य ऐषोकः, ऐषीकी, ऐषिकः। कम्पनं प्रहरणमस्य काम्पनीकः, काम्पनीकी, काम्पनिकः, अम्भःप्रहरणः आम्भसीकः, आम्भसीकी, आम्भसिकः, दण्डप्रहरणः दाण्डीकः, दाण्डीकी, दाण्डिकः, इष्टयदयः प्रयोगगम्याः ।६५। नास्तिकास्तिकदैष्टिकम् ।। ६. ४. ६६ ॥
एते शब्दास्तदस्येत्यस्मिन्विषये इकण्प्रत्ययान्ता निपात्यन्ते, निपातनं रूढयर्थम् । नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य नास्तिकः, अस्ति परलोकः पुण्यं पापमिति वा मतिरस्य आस्तिकः, नास्त्यस्तिशब्दौ तिवादिप्रतिरूपके अव्यये । निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातान्नास्तीति पदसमुदायाच्च प्रत्ययः, दिष्टं दैवं तत्प्रमाणमिति मतिरस्य दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिकः ।६६।
न्या० स० नास्ति०-अव्यये इति तयोश्च परतः प्रथमैकवचनम् । वृत्तोऽपपाठोऽनुयोगे ॥ ६. ४. ६७ ॥
तदस्येति वर्तते । तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेदनुयोगविषये वृतोऽपपाठो भवति, अनुयोगः परीक्षा। एकमन्यदपपाठोऽनुयोगे वृत्तमस्य ऐकान्यिकः, द्वैयन्यिकः, त्रैयन्यिकः, संख्यान्यशब्दयोस्तद्धिते विषयभूते समासः, ततस्तद्धितः । वृत्तोऽपाठोऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः । अन्यत्वं चापपाठस्य सम्यक्पाठापेक्षम् । वृत्त इति किम् ? वर्तमाने वय॑ति च न भवति । अपपाठ इति किम् ? एकमन्यदस्य दुःखमनुयोगे वृत्तम्, जयोऽनुयोगे वृत्तः । अनुयोग इति किम् ? स्वैराध्ययने माभूत् । अन्ये त्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्ययमिच्छति, एक रूपमध्ययने वृत्तमस्य ऐकरूपिकः, ऐकग्रिन्थकः ।६७। बहुस्वरपूर्वादिकः ॥ ६. ४. ६८॥
बहस्वरं पूर्वपदं यस्य तस्मान्नाम्नः प्रथमान्तादस्येति षष्ठयर्थे इकः प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेद्वत्तोपपाठोऽनुयोगे भवति । एकादशान्यान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि एकादशात्यिकः, एकादशान्यिका स्त्री,