________________
[पाद. ४. सू. ६१-६४] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [१७१
न्या० स० अस्था०-अचासौ स्थाश्च, छत्रं आदिर्यस्य अस्थाश्च छत्रादिश्च तस्मात् , अन्तर्मध्ये स्थानं भिदाद्यङि 'व्यत्यये लुग वा' १-३-५६ इति रलोपः, अन्तस्थानं वा अन्तस्था शीलमस्य । अभ्यासापेक्षापीति शीलं हि प्राणिनां स्वभावः, छात्रस्य तु न स स्वभाव इत्याशङ्क्योक्तम।
चुक्षेति चुक्षिः सौत्रो निर्मलीकरणे चुक्षा शौचं चिक्षेति केचित् शिक्षीत्यस्य स्थाने चिक्षीति पठन्ति धात्वन्तरं वा चिक्षिः, चिक्षा शिक्षेत्यर्थः । तूष्णीकः ।। ६. ४. ६१ ॥
तूष्णींशब्दात्तदस्य शीलमित्यस्मिन्विषये कः प्रत्ययो मकारलोपश्च निपात्यते । तूष्णींभावः शोलमस्य तूष्णीकः ।६१। प्रहरणम् ॥ ६. ४. ६२ ॥
तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेत्प्रहरणं भवति । असिः प्रहरणमस्य आसिकः, प्रासिकः, चाक्रिकः, मौष्टिकः, धानुष्कः, मौद्गरिकः, मौसलिकः । चरतीत्यत्र व्यापारसाधनात् प्रत्ययो यथा अश्वेन चरतीति । शिल्पमित्यत्र तु विज्ञानातिशये यथा नृत्तं शिल्पमस्येति, अनेन तु व्यापाराभावेऽपि परिज्ञानमात्रे प्रत्ययः ।६२।
न्या० स० प्रह-व्यापारसाधनादिति व्यापारश्चरणरूप साध्यते येन तस्मात् , अयमर्थः, चरत्यर्थे व्यापारं साधयन्नेव शब्दः प्रत्ययमुत्पादयति ।
व्यापाराभावेऽपीति प्रहरणस्य हि व्यापारः परपहरणरूपः, तस्याभावेऽपि प्रहरणाभावेऽपीत्यर्थः, विज्ञानातिशयश्च प्रहारवैचक्षण्यं तदभावेपि तन्मात्रेऽपीत्यर्थः । परश्वधादाण ॥ ६. ४. ६३ ॥
परश्वधशब्दात्तदस्य प्रहरणमित्यस्मिन्विषयेऽण् प्रत्ययो वा भवति । परश्वधः प्रहरणमस्य पारश्वधः, पक्षे इकण-पारश्वधिकः ।६३। शक्तियष्टेष्टीकण ।। ६. ४. ६४ ॥
शक्ति यष्टि इत्येताभ्यां तदस्यप्रहरणमित्यस्मिन् विषये टीकण प्रत्ययो भवति । शक्तिः प्रहरणस्य शाक्तीकः, शाक्तीकी, याष्टीकः, याष्टीको, कथं शाक्तिकः ? शक्त्या जीवतीति वेतनादीकणा भविष्यति ।६४।। ___ न्या० स० शक्ति०-ननु टिकणिति मात्रालघुः प्रत्ययो विधीयतां, एवमपि कृते शाक्तीकादयः सेत्स्यन्ति । न च वाच्यं, 'अवर्णेवर्णस्य ' ७-४-६८ इत्यस्य प्रसङ्गः, यतष्टकारो हि यर्थः, - स तु इकण द्वारा सिद्धः इत्यधिकस्य टकारस्यैतदेव फलं यत् 'अवर्णेवर्णस्य ' ७-४-६८ इति इलोपं बाधित्वा 'समानानाम् ' १-२-१ इति दीर्पण टिकणि कृतेऽपि शाक्तीकादयो भवन्ति, परमुत्तरत्र वाम्भसीक इति सिद्ध्यर्थ टीकणकरणम् ।