________________
१७० ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. ३. सू. ५८-६० ] मार्दङ्गकरणिकः, वैणाकरणिकः, मृदङ्गवादनादिभ्योऽप्यनभिधानान्न भवति । शिल्पार्थो वृत्तावन्तर्भूत इति शिल्पशब्दस्याप्रयोगः । ५७ ।
न्या० स० शिल्पं० मृदङ्गादिशब्दा इति आदिशब्दात् व्याकरणकरणादि शिल्पमस्येति वैयाकरणिकादयः । न द्रव्यवृत्तय इति द्रव्यस्य शिल्पायोगात्तद्विषयायाः क्रियायाः शिल्पत्वमिति वादनार्थवृत्तय इत्युक्तम् ।
कुम्भकारादाविति केषुचिद्ग्रामेषु मृन्मया मृदङ्गा भवन्ति तेषां कुम्भकारादुत्पत्तिः । करणादिभ्य एवेति न तु मृदङ्गशब्दादित्यर्थः ।
झर्झराद्वा ॥ ६. ४. ५८ ॥
मड्डुकझर्झर इत्येताभ्यां तदस्य शिल्पमित्येतस्मिन् विषये अण् प्रत्ययो वा भवति । मड्डुकवादनं शिल्पमस्य माड्डुकः, झार्झरः, पक्षे इकण् माड्डुकिकः । झार्झरिक: ।५८ |
शीलम्
।। ६. ४. ५९ ।
तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेच्छीलं भवति । शीलं प्राणिनां स्वभावः, फलनिरपेक्षा प्रवृत्तिरिति यावत् । अपूपा अपूपभक्षणं शीलमस्य आपूपिकः, शाष्कुलिकः, मौदकिकः, ताम्बूलिकः । परुषवचनं शीलमस्य पारुषिकः एवमाक्रोशिकः । मृदङ्गादिवदपूपादयः शब्दाः क्रियावृत्तय प्रत्ययमुत्पादयन्ति । शीलार्थो वृत्तावन्तर्भूत इति शीलशब्दस्याप्रयोगः ॥५९॥ अस्थाच्छत्रादेरञ् ।। ६. ४. ६० ।।
अङ्प्रत्ययान्तात्तिष्ठष्ठेभ्छत्र इत्यादिभ्यश्च तदस्य शीलमित्यस्मिन् विषयेऽञ् प्रत्ययो भवति । आस्था शीलमस्य आस्थः, सांस्थः, आवस्थः, सामास्थः, वैयवस्थः, नैष्ठः, वैष्ठः, ' उपसर्गादातः ' ( ६-३ - ११० ) इत्यङ् । आन्तस्थः । भिदादित्वादङ् । छत्रादि, छत्रं शीलमस्य छात्रः, छत्रशब्देन गुरु कार्येष्ववहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनाऽपायरक्षणादिका क्रियोच्यते उपचारात् । शिष्यो हि छत्रवद् गुरुच्छिद्रावरणादिप्रवृत्त छात्र इत्युच्यते । अभ्यासापेक्षाऽपि क्रिया शीलमित्युच्यते । यथा शीलिता विद्येति । चुराशीलः चौरः, तपःशीलः तापसः, कर्मशीलः कार्मः स्त्रियां छात्री चौरी तापसी । छत्र, चुरा, तपस्, कर्मन्, शिक्षा, चुक्षा, चिक्षा, भिक्षा, भक्षा, तितिक्षा, बुभुक्षा, विश्वधा, उदस्थान, उपस्थान, पुरोडा, कृषि, मन्द्र, सत्य, अनृत, विशिख, विशिखा, प्ररोह इति छत्रादिः | ६०|