________________
[ पाद४. सू. ५४-५७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १६९ भोमनिर्वेशो भाटकमिति यावत् । षष्ठयन्तानाम्नोऽवक्रयेऽर्थे इकण् प्रत्ययो भवति । आपणस्यावक्रयः आपणिकः, शौल्कशालिकः, आतरिकः, गौल्मिकः, लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धाद्भिद्यते ।५३। __न्या स० अवक्रये-भोगनिर्वेश इति भूज्यते इति भोगो गृहादि, निर्विश्यते अनेन व्यञ्जनाद् घनि निर्वेशः, ततः षष्ठीसमासः। धर्माद्भिद्यते इति ततः 'षष्ठ्या धर्ये' ६-४-५० इत्यनेन न सिध्यतीति पृथग् योग इत्यर्थः। तदस्य पण्यम् ॥ ६. ४. ५४ ॥
तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति, तच्चेत् प्रथमान्तं पण्यं विक्रेयं भवति । अपूपाः पण्यमस्य आपूपिकः, पण्यार्थी वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः । एवं शाष्कुलिकः, मौदकिकः, लावणिकः ।५४। किशरादेरिकट् ॥ ६. ४. ५५ ॥
किशर इत्येवमादिभ्यस्तदस्य पण्यमित्यस्मिन् विषये इकट्प्रत्ययो भवति, किशरादयो गन्धद्रव्यविशेषवचनाः। किशरं किशरो वा पण्यमस्य किशरिकः, किशरिकी स्त्री, तगरिकः, तगरिकी स्त्री। किशर, तगर, स्थगर, उशीर, हरिद्रा, हरिद्रु, हरिद्रुपी, गुग्गुलु, गुग्गुल, नलदा। इति किशरादिः ।। टकारो यर्थः ।५५। शलानो वा ॥ ६. ४. ५६ ॥
शलालुशब्दाइन्धविशेषवाचिनस्तदस्य पण्य मित्यस्मिन् विषये इकट् प्रत्ययो भवति वा। शलालु पण्यमस्य शलालुकः, शलालुकी, पक्षे इकण् । शालालुकी ५६। शिल्पम् ॥ ६. ४. ५७ ॥
तदस्येति वर्तते, तदिति प्रथमान्तादस्येत्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेच्छिल्पं भवति । शिल्पं कौशलम् विज्ञानप्रकर्षः । अनेन तन्निर्वर्त्यः क्रियाविशेषो लक्ष्यते, नृत्तं शिल्पमस्य नातिकः । गीतं गैतिकः, वादनं वादनिकः, मृदङ्गो मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः, । एव पाणविकः, मौरजिकः, वैणिकः मृदङ्गादिशब्दा वादनार्थवृत्तयः प्रत्ययमुत्पादयन्ति न द्रव्यवृत्तयः। उत्पादनार्थवृत्तिभ्यस्त्वनभिधानान्न भवति । अत एव कुम्भकारादावभिधेये मृदङ्ग करणादिभ्य एव प्रत्ययः, मदङ्गकरणं शिल्पमस्य