________________
१६८ ] . बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० ४८-५३ ] सेनाया वा ॥६. ४.४८ ॥
सेनाशब्दाद्वितीयान्तात्समवेतेऽर्थे ण्यः प्रत्ययो वा भवति । सेनां समवैति सैन्यः, पक्षे समूहार्थात्समवेते इतीकण् । सैनिकः, सेनैव सैन्यमिति तु भेषजादित्वात्स्वार्थे टयण ॥४८॥ धर्माधर्माच्चरति ॥ ६. ४. ४९ ।।
धर्म अधर्म इत्येताभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण प्रत्ययो भवति । घरतिस्तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः, आधर्मिकः ।४९। षष्ठया धर्म्य ॥६. ४. ५०॥
षष्ठयन्ताद्धये॒ऽर्थे इकण प्रत्ययो भवति । धर्मो न्यायोऽनवृत्त आचारस्तस्मादनपेतं धर्म्यम् । शुल्कशालाया धर्म्यम् शौल्कशालिकम्, आपणिकम्, गौल्मिकम्, आतरिकम् ।५०। ऋन्नरादेरण् ।। ६. ४. ५१ ॥
ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठ्यन्तेभ्यो धर्थेऽर्थेऽण् प्रत्ययो भवति । नुर्धर्म्य नारम्, स्त्रियां नारी, मातुर्मात्रम्, पितुः पैत्रम्, शास्तुः शास्त्रम्, विकर्तुः वैकत्रम्, होतुहौं त्रम्, पोतुः पौत्रम्, उदातुः औद्भात्रम्, नरादि । नरस्य धर्म्यम् नारम्, स्त्रियां नारी, नृशब्देनैव रूपद्वये सिद्धे नरशब्दादिकण् माभूदिति तद्ग्रहणम् । महिष्या माहिषम् नर महिषी, प्रजावती, प्रजापति विलेपिका, प्रलेपिका, अनुलेपिका, वर्णक, पेषिका, वर्णकपेषिका, मणिपाली, पुरोहित, अनुचारक, अनुवाक, यजमान, होतृयजमान इति नरादिः ॥५१॥
विभाजयितृविशसितुर्णीइलुक् च ॥ ६. ४. ५२॥ ____ आभ्यां षष्ठयन्ताभ्यां धर्थेऽर्थेऽण् प्रत्ययो भवति तत्संनियोगे च विभाजयितुणिलुक् विशसितुश्चेट्लुक् भवति । विभाजयितुर्धयं वैभाजित्रम्, विशसितुर्वैशस्त्रम्, ॥५२॥ - न्या० स० विभा०-विपूर्वो भजणू, ततो णिच् तृच् विभाजयित । णिलुकिति नन्वत्र इट्लोप एव विधीयतां किं णिलोपेन विभाजयित इत्यत्रापि इट्लोपे णिचा सस्वरत्वे वैभाजित्रमिति सिध्यति ? नैवं, णिलोपाभावे गुणः स्यात् , ततोऽनिष्टं रूपं स्यात् , णिलोपे तु इटो धातुत्वाभावात् गुणो न भवतीति सिध्यति । .
अवक्रये ॥ ६. ४. ५३ ।। अवक्रीयते येनेच्छानियमितेन द्रव्येण कियन्तमपि कालमापणादि सोऽवक्रयः।