________________
[ पाद ३. सू. ४५-४७ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठीध्यायः
[ १६७
वाक्यपरामशार्थः । माशब्द इति ब्रूते माशब्दिकः । मा शब्दः क्रियतामिति - ब्रूत इत्यर्थः । कार्यः शब्द इति ब्रूते कार्यशब्दिकः, नित्यः शब्द इति ब्रूते नैत्यशब्दिकः, माशब्द इत्यादयः प्रयोगगम्याः । वाक्यात्प्रत्ययविधानार्थं
वचनम् ।४४।
न्या० स० माश० - वाक्यादिति पूर्वेण हि पदात्प्रत्यय इत्यर्थः ।
शाब्दिकदार्दरिकलालाटिककौकुटिकम् ॥ ६. ४. ४५ ।।
शाब्दिकादयः शब्दा ययास्वं प्रसिद्धेऽर्थविशेषे इकण्प्रत्ययान्ता निपात्यन्ते । शब्दं करोति शाब्दिकः, यः कश्चिच्छब्दं करोति न स सर्वः शाब्दिकः किं तहि यः शब्दं जानाति वैयाकरणः स एवाविनष्टं शब्दमुच्चारयन् शब्दिक उच्यते । एवं दार्दरिकः, दर्दरो घटो वादित्रं च तत्र वादित्रं कुर्वन्नेव मुच्यते । ललाटं पश्यति लालाटिकः, ललाटदर्शनेन दूरावस्थानं लक्ष्यते तेन च कार्येष्वनुपस्थानम् । यः सेवको दृष्टं स्वामिनो ललाटमिति दूरतो याति न स्वामिकायेंषूपतिष्ठते स एवमुच्यते । ललाटमेव वा कोपमसादलक्षणाय यः पश्यति स लालाटिकः, कुक्कुटीं पश्यति कौक्कुटिकः, कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन च देशस्याल्पता, यो हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपे देशे चक्षुः संयम्य पुरो युगमात्र देशप्रेक्षी गच्छति स एवमुच्यते । यो वा तथाविधमात्मानतथाविधोऽपि संदर्शयति सोऽपि कौक्कुटिकः । दाम्भिकचेष्टा वा मिथ्याशौचादिः कुक्कुटी, तामाचरन् कौक्कुटिकः, हृदयावयवो वा कुक्कुटी तां पश्यति कौक्कुटिको भिक्षुः । निभृंत इत्यर्थः । तदेतत्सर्वं निपातनाल्लभ्यते ॥ ४५ ॥ समूहार्थात्समवेते ।। ६. ३. ४६ ॥
समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेते तादात्म्यात्तदेकदेशीभूतेऽर्थे इकण् प्रत्ययो भवति । समूहं समवैति सामूहिकः, सामाजिक, सांसदिकः, सामवायिकः, गौष्ठिकः । तदेकदेशीभावमनुभवन्नेवमुच्यते । समवेत्यापगते तु समवेतशब्दो न वर्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति ॥ ४६ ॥ न्या० स० समू०—कैश्चिदन प्रत्ययलोपः कृतः ततः स्वमते कथमित्याह समवेत्येति । पर्षदो ण्यः ।। ६. ४. ४७ ।।
पर्षच्छब्दाद्वितीयान्तात्समवेतेऽर्थेण्यः प्रत्ययो भवति, पर्षदं समवैति पार्षद्यः, परिषच्छब्दादपीच्छन्त्यन्ये, पारिषद्यः |४७ |