________________
१६६ ]
बृहद्वृत्ति - लघुन्यास संवलिते
माथोत्तरपदपदव्याक्रन्दाद्धावति ॥ ६ ४ ४० ॥
तमिति वर्तते । माथ उत्तरपदं यस्य तस्मान्नाम्नः पदवीशब्दादाक्रन्दशब्दाच्च द्वितीयान्ताद्धावत्यर्थे इकण् प्रत्ययो भवति । दण्डमाथं धावति दाण्डमाथिकः, शौक्लमाथिकः । माथशब्दः, पथिपर्याय: । दण्ड इव माथो दण्डमाथः ऋजुमार्ग उच्यते । पदवीं धावति पादविकः, आक्रन्दन्ति यत्र स देश आक्रन्द आक्रन्द्यते इति वा आक्रन्दः आर्तायनं शरणमुच्यते । आक्रन्दं धावति आक्रन्दिकः, उत्तरपदग्रहणाद्बहुप्रत्ययपूर्वान्न भवति । बहुमाथं धावति ॥४०॥
[ पा० ४. सू० ४०-४४ ]
न्या० स० माथोत्तरपद ० - दण्डमाथ इति मध्यते अवगाह्यते पादैः घनि माथः, दण्ड इव माथः, उपमानं सामान्यैरेवेति नियमादप्राप्तोऽपि मयूरव्यंसक ३-१-११६ इति सः ।
((
पश्चात्यनुपदात् ॥ ६. ४. ४१ ॥
पश्चातीति प्रकृतिविशेषणम् । पश्चादर्थः पश्चात् । पश्चादर्थे वर्तमानादनुपदशब्दाद्द्द्वितीयान्ताद्धावत्यर्थे इकण् प्रत्ययो भवति पदस्य पश्चादनुपदम्, अनुपदं धावति आनुपदिकः, प्रत्यासत्त्या धावतीत्यर्थः । पश्चातीति किम् ? अनुपदं धावति । अत्र ' दैर्घ्येऽनुः' ( ३-१-३४) समीपे ' प्रात्यव - ( ३-१-४७ ) इत्यादिना वा समासः । ४१ ।
,
सुस्नातादिभ्यः पृच्छति ॥ ६. ४. ४२ ॥
तमिति वर्तते । सुस्नातादिभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् प्रत्ययो भवति । सुस्नातं पृच्छति सौस्नातिकः, सौखरात्रिकः, सौखशायनिकः, सौखशाय्यिकः, सुस्नातादयः प्रयोगगम्याः ॥४२॥
प्रभूतादिभ्यो ब्रुवति ॥ ६. ४. ४३ ॥
प्रभूतादिभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । प्रभूतं ब्रूते प्राभूतिकः, पर्याप्तं ब्रूते पार्याप्तिकः, वैपुलिकः, वैचित्रिकः, नैपुणिकः, क्रियाविशेषणादयमिष्यते, तेनेह न भवति । प्रभूतमर्थं ब्रूते पर्याप्तमर्थं ब्रूत इति । कचिदक्रियाविशेषणादपि । स्वर्गमनं ब्रूते सौवर्गमनिकः, स्वागतिकः, सौवस्तिकः, प्रभूतादयः प्रयोगगम्याः |४३|
न्या० स० प्रभू० – सौवस्तिक इति स्वस्तीति ब्रूते व्युत्पत्तिपक्षे 'य्वः पदान्तात् ' ७-४-५ इति अव्युत्पत्तिपक्षे तु ' द्वारादेः ' ७-४-६ इत्यौत् ।
माशब्दइत्यादिभ्यः ।। ६. ४. ४४ ॥
माशब्द इत्यादिभ्यो ब्रुवत्यर्थे इकण् प्रत्ययो भवति । इति शब्दो