________________
{ पाद. ४. सू. ३६-३९] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [ १६५ कुसीदं वृद्धिस्तदर्थ द्रव्यमपि कुसीदम् । तदह्णाति कुसीदिकः, कुसीदिकी, टकारो ङ्यर्थः ॥३५॥ दशैकादशादिकश्च ॥ ६. ४. ३६ ॥
तमिति द्वितीयान्ताद्दशैकादशब्ददाँ गृह्णत्यर्थे इकश्चकारादिकट च प्रत्ययो भवति । दशभिरेकादश दशैकादशाः। तान्गृह्णाति दशैकादशिकः, दशैकादशिका, दशैकादशिकी दशैकादशादित्यत एव निपातनादकारान्तत्वम् । तच्च वाक्ये प्रयोगार्थम् । दशैकादशान् गृह्णाति । अन्ये दशैकादश गृह्णातीति विगहन्ति । तदपि अबाधकान्यपि निपातनानि भवन्तीति न्यायादुपपद्यते ।३६। अर्थपदपदोत्तरपदललामप्रतिकण्ठात् ॥ ६. ४. ३७ ।।
गद्य इति निवृत्तम्, अर्थात्पदात्पदशब्द उत्तरपदं यस्य तस्मात् ललामात प्रतिकण्ठाच्च द्वितीयान्तादहत्यर्थे इकण् प्रत्ययो भवति । अर्थं गृह्णाति आर्थिकः, पदं पादिकः, पदोत्तरपद, पूर्वपदं पौर्वपदिकः, औत्तरपदिकः, आदिपदिकः, आन्तपदिकः, ललाम लालामिकः, प्रतिकण्ठं प्रातिकण्ठिकः, अव्ययीभावसमासाश्रयणादिह न भवति । प्रतिगतः कण्ठं प्रतिकण्ठः तं गृह्णाति । उत्तरपदग्रहणाद्वहुप्रत्ययपूर्वान्न भवति, बहुपदं गृह्णाति ।३७।।
न्या० स० अर्थ-ललिणो नित्यण्यन्तात् कर्मणिके ललस्तममति प्राप्नोति ललामः प्रतिकण्ठ मिति कण्ठं प्रति प्रतिकण्ठं 'लक्षणेनाभिप्रति' ३-१-३२ इत्यवव्ययीभावः, कण्ठंकण्ठं प्रति 'योग्यतावीप्स्या' ३-१-४० इति वा समासः ।
प्रतिगत: कण्ठमिति ‘प्रात्य' ३-१-४७ इति समासस्तत्पुरुषः । परदारादिभ्यो गच्छति ॥ ६. ४. ३८ ॥
परदारादिभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण प्रत्ययो भवति । परदारान् गच्छति पारदारिकः, गौरुदारिकः, गौरुतल्पिकः, सभर्तृकां गच्छति साभर्तृकिकः, भ्रातृजायिकः, परदारादयः प्रयोगगम्याः ॥३८॥
न्या० स० पर०-भ्रातृजायिक इति भ्रातुः सकाशात् भ्रातरि वा जायेति कृत्य, षष्ठीसमासे तु 'ऋतां विद्या' ३-२-२७ इत्यलुप् स्यात् । प्रतिपथादिकश्च ॥ ६. ४. ३९ ॥
प्रतिपथशब्दाद्वितीयान्ताहच्छत्यर्थे इकः प्रत्ययो भवति । चकाराद्यथाप्राप्त इकण् । पन्थानं २ प्रति पथोऽभिमुखमिति वा प्रतिपथम् । तद्गच्छति प्रतिपथिकः प्रातिपथिको वा ।३९॥