________________
१६४ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ४ सू. ३२-३५ ] हन्ति अनिमिषान् हन्तीत्यत्र कस्मान्न भवति । नैतन्मत्स्येत्यस्य स्वरूपं न विशेषो न पर्यायः अपि त्वसाधारणं विशेषणं यथा जिह्मगा भुजगाः अनिमिषा देवा इति ।३१॥ ___ न्या० स० पक्षि०-न पर्याय इति यः किल पर्यायशब्दः स व्युत्पत्तिमन्तरेणापि तावन्तमर्थ गमयत्ययं तु व्युत्पत्त्यपेक्ष एव गमयति ।
विशेषणमिति यत्रापि अजिह्मादिशब्देभ्यो मत्यादिप्रतीतिस्तत्राप्यसाधारणविशेषणत्वेनैव न पर्यायत्वेन । परिपन्थात्तिष्ठति च ॥ ६. ४. ३२ ॥
परिपन्थशब्दाद्वितीयान्तात्तिष्ठिति घ्नति चार्थे इकण प्रत्ययो भवति । परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकश्चौरः, अतः एव निर्देशात् परिपथशब्दस्येकणोऽन्यत्रापि वा परिपन्थादेशः, तेन परिपन्थं गच्छति परिपन्थं पश्यति इत्याद्यपि भवति ।३२।
न्या. स. परिपन्थमिति पथः परिशब्दो वर्जनार्थः तदा 'पर्यपाम्यां वयं ' इति पञ्चमी, 'पर्यपाबहिः' ३-१-३२ इति समासः, यदा तु परितः पन्थानमिति सर्वतोऽर्थः परिः तदा 'सर्वोभयाभिपरिणातसा' २-३-३५ (इति) द्वितीया, सूत्रसामर्थ्यादव्ययीभावः 'ऋक्तः पथ्यपोऽत् ' ७-३-७३। परिपथात् ॥ ६. ४. ३३ ॥
तिष्ठतीति वर्तते, परिपथशब्दाद्वितीयान्तात्तिष्ठत्यर्थे इकण् प्रत्ययो भवति । परिर्वर्जने सर्वतोभावे वा । पथः परि सर्वतः पन्थानं वा परिपथम् । परिपथं तिष्ठति पारिपथिकः, पन्थानं वर्जयित्वा व्याप्य वा तिष्ठतीत्यर्थः ।३३। अवृद्धग्रहति गर्ये ॥ ६. ४. ३४ ॥
तमिति द्वितीयान्ताद्वद्धिशब्दवजितागुहृत्यर्थे इकण् प्रत्ययो भवति योऽसौ गृह्णाति स चेदन्यायेन ग्रहणाद्रो निन्द्यो भवति । द्विगुणं गृह्णाति द्वैगुणिकः, त्रैगुणिकः, वधुषी वृद्धि गृह्णाति वाघु षिकः, अल्पं दत्त्वा प्रभूतं गृह्णन्नपन्यायकारी निन्द्यते । अवृद्धेरिति किम् ? वृद्धि गृह्णातीति वाक्यमेव । गर्ये इति किम् ? दत्तं गृह्णाति ।३४।
न्या० स० अ०-वृधुषीमिति प्रयुक्तं धनं पुष्णातीति प्रयुक्तधनपोषी तस्य पृषोदरादित्वात् वृधुषीशब्द आदेशः। कुसीदादिकट् ॥ ६. ४. ३५॥
तमिति द्वितीयान्तात्कुसीदशब्दागर्ने गृहृत्यर्थे इकट् प्रत्ययो भवति ।