________________
[पाद. ४. सू. २७-३१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [१६३ ओजःसहोम्भसो वर्तते ॥ ६. ४. २७ ॥
ओजस्, सहस्, अम्भस् इत्येतेभ्यस्तृतीयान्तेभ्यो वर्तते इत्यर्थे इकण् प्रत्ययो भवति, वृत्तिरात्मयापना चेष्टा वा। ओजसा बलेन वर्तते औजसिकः, सहसा प्रसहनेन पराभिभवेन वा साहसिकः, अम्भसा जलेन आम्भसिकः ।२७। तं प्रत्यनोर्लोमेपकूलात् ॥ ६. ४. २८॥
तेनेति निवृत्तम् । तमिति द्वितीयान्तात्प्रति अनु इत्येताभ्यां परो यो । लोमशब्द ईषशब्दः कूलशब्दश्च तदन्ताद्वर्तते इत्यर्थे इकण प्रत्ययो भवति । प्रतिलोभं वर्तते प्रातिलोमिकः, आनुलोमिकः, प्रातीपिकः, आन्वीपिकः, प्रातिकूलिकः, आनुकूलिकः अकर्मकस्यापि वृत्तेर्योगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया, तमिति पुलिङ्गनिर्देशोऽसंदेहार्थः ।२८। ___ न्या० स० तं प्रत्यनो०-असंदेहार्थ इति तदिति कृते हि प्रथमान्तस्यैतद्रूपं द्वितीयान्तस्य वेति संदेहः, यतः स्यमोरपि नपुंसके साधारणं तदिति रूपम् । परेर्मुखपार्थात् ॥ ६. ४. २९ ।।
परिशब्दाद्यो मुखशब्दः पार्श्व शब्दश्च तदन्तात् द्वितीयान्तात् वर्तते इत्यर्थे इकण् प्रत्ययो भवति । परिमुखं वर्तते पारिमुखिकः, परिपाच वर्तते पारिपाश्विकः, परिवर्जने सर्वतोभावे वा । स्वामिनो मुखं वर्जयित्वा वर्तमानोऽथवा यतोयतः स्वामिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः, एवं पारिपाश्विकः ।२९।।
न्या. स० परे०-परिमुखमिति मुखात् परि 'पर्यपाङ्' ३-१-३२ इत्यव्ययीभावः, परितः सर्वतो मुखं परिमुखं तदा ‘परिमुखादेरव्ययीभावात् ' ६-३-१३६ वचनादव्ययीभावः । रक्षदञ्छतोः ॥ ६. ४. ३० ॥
तमिति द्वितीयान्ताद्रक्षति उञ्छति चार्थे इकण् प्रत्ययो भवति । समाज रक्षति सामाजिकः, सामवायिकः, नागरिकः, सांनिवेशिकः, बदराण्युञ्छति उच्चिनोति बादरिकः, श्यामाकिकः, नैवारिकः ।३०। पक्षिमत्स्यमृगार्थाद् घ्नति ॥ ६. ४. ३१ ॥
तमिति द्वितीयान्तेभ्यः पक्ष्यर्थेभ्यो मत्स्यार्थेभ्यो मृगार्थेभ्यश्च घनत्यर्थे इकण् प्रत्ययो भवति । पक्षिणो हन्ति पाक्षिकः, मात्सिकः, मार्गिकः, अर्थग्रहणात्तत्पर्यायेभ्यो विशेषेभ्यश्च भवति । शाकुनिकः, मायूरिकः, तैत्तिरिकः, मैनिकः, शाफरिकः, शाकुलिकः, हारिणिकः, सौकरिकः, नैयकुकः। अथाजिह्मान