________________
१६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० २२-२६ ] ___याचितापमित्यात्कण ॥ ६. ४. २२ ॥
याचित अपमित्य इत्येताभ्यां तेन निवृत्ते कण् प्रत्ययो भवति । याचितेन याच्या निवृत्तं याचितकम्, अपमित्येति यबन्तम् । अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम् ।२२।
न्या० स० याचि-अपमित्येति अपमानं 'निमील्यादिमेङः । ५-४-४६ क्त्वा 'मेङो वा मित् ' ४-३-८८। हरत्युत्सङ्गादेः ॥ ६. ४. २३ ॥
उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकण् प्रत्ययो भवति । उत्सङ्गेन हरत्यौत्सङ्गिकः, उत्रुपेन औत्रुपिकः, उडुपेन औडुपिकः । उत्सङ्ग, उत्रुप, उडुप, उत्पुन, उत्पुट, पिटक, पिटाक इत्युत्सङ्गादिः ।२३।
भस्त्रादेरिकद ।। ६. ४. २४ ॥ __ भत्रादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकट् प्रत्ययो भवति । भस्नया हरति भस्त्रिकः, भस्त्रिकी, भरटिकः, भरटिकी। भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अङ्गभार, अङ्गेभार, अंसभार, अंसेभार इति भस्त्रादिः ।२४। विवधवीवधादा ॥ ६. ४. २५॥
विवधवीवध इत्येताभ्यां तेन हरत्यर्थे इकट् प्रत्ययो वा भवति । विवधेन हरति विवधिकः, विवधिकी, वीवधिकः, वीवधिकी, पक्षे इकण वैवधिकः वैवधिकी, विवधवीवधशब्दौ समानार्थी पथि पर्याहारे च वर्तेते ॥२५॥ ___ न्या० स० विविध०-पक्षे इकणिति अत्र वाग्रहणसामर्थ्यात् अन्येनाप्राप्तोऽपि पक्षे इकण् अन्यथा वाग्रहणमनर्थकं स्यात् । कुटिलिकाया अण् ॥ ६. ४. २६ ॥
कुटिलिकाशब्दात्तृतीयान्ताद्धरत्यर्थेऽण् प्रत्ययो भवति । कुटिलिकाशब्देनाग्रेवका लोहादिमयी अङ्गाराकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षे. पणोऽग्रेवको दण्डो वा परिव्राजकोपकरणविशेषो वा चौराणां नौगृहाधारोहणार्थ दामाग्रप्रतिबद्ध आयसोऽर्द्धकुशो वोच्यते । कुटिलिकया हरत्यङ्गारान् कौटिलिकः कारः, कुटिलिकया हरति व्याधं कौटिलिको मगः, कुटिलिकया हरति पलालं कोटिलिकः कर्षकः, कुटिलिकया हरति पुष्पाणि कौटिलिकः परिव्राजकः, कुटिलिकया हरति नावं कौटिलिकश्चौरः ।२६।