________________
[पाद. ४. सू. १६-२१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१६१ भवति । वेतनेन जीवति वैतनिकः, वाहिकः । वेतन, वाह, अर्धवाह, धनुस् दण्ड, धनुर्दण्ड, जाल, वेश, उपवेश, प्रेषण, भृति, उपवेष, उपस्था, उपास्ति, उपस्थान, सुख, शय्या, सुखशय्या, शक्ति, उपनिषत्, उपरिजन, स्फिज, स्फिग, वाल, पुतचाल, उपदेश, पाद, उपहस्त, इति वेतनादिः ।१५। व्यस्ताच्च क्रयविक्रयादिकः ॥ ६. ३. १६ ॥
क्रयविक्रयशब्दात्समस्ताब्यस्ताच्च तेन जीवत्यर्थे इकःप्रत्ययो भवति । क्रय विक्रयेण जीवति क्रयविक्रयिकः, क्रयिकः, विक्रयिकः ।१६। .
वस्नात् ॥ ६.४.१७॥ ___ वस्नात्तेन जीवत्यर्थे इकः प्रत्ययो भवति । वस्नं मूल्यं तेन जीवति वस्निकः ।१७।
आयुधादीयश्च ॥ ६. ४. १८॥ आयुधशब्दात्तेन जीवत्यर्थे ईयश्चकारादिकश्च प्रत्ययौ भवतः। आयुधीयः, आयुधिकः आयुधिका, आयुधादिकेकणोः स्त्रियां विशेषः ॥१८॥
न्या० स० आयुधादीयश्च-स्त्रियां विशेष इति नन्वायुधादीयो वेति क्रियतां पक्षे इकणापि सेत्स्यतीत्याशङ्का । वातादीनञ् ॥ ६. ४. १९॥
वातशब्दात्तेन जीवत्यर्थे ईनञ् प्रत्ययो भवति । नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः। तत्साहचर्यात्तत्कर्मापि बातम् । तेन जीवति वातीनः, अकारो वृद्धयर्थः । तेन तद्धितः स्वरवद्धि(३-२-५५) इत्यादिना पुवद्भावो न भवति, व्रातीनाभार्यः ।१९। निवृत्तेऽक्षयूतादेः ॥ ६. ४. २० ॥
___ अक्षयूत इत्येवमादिभ्यस्तृतीयान्तेभ्यो निर्वृत्तेऽर्थे इकण् प्रत्ययो भवति । अक्षयूतेन निर्वृत्तमाक्षयूतिकं वैरम्, जाङ्घाप्रहतिकं वरम् । अक्षयूत, जङ्घाप्रहत, जङ्घाप्रहृत, जङ्घाप्रहार, पादस्वेद, पादस्वेदन, कण्टकमर्द, कण्टकमर्दन, शर्करामर्दन, गत, आगत, गतागत, यात, उपयात, यातोपयात, गतानुगत, अनुगत इत्यक्षातादिः ।२०। . भावादिमः ॥ ६. ४. २१ ॥
भाववाचिनस्तेन निवृत्तेऽर्थे इमः प्रत्ययो भवति । पाकेन निवृत्तं पाकियम्, सेकिमम्, त्यागिमम्, रोगिमम्, कुट्टिमम्, संमूछिमम् ॥२१॥