________________
१६० ]
बृहद्वृत्ति - लघुन्यास संवलिते
पा० ३. सू० ९-१५ ]
न्या० स० व्यञ्ज॰—उपसिक्त एवेति सूपेन संसृष्टा स्थालीत्यनुपसिक्के संसृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था ।
व्यजनैरेवेति उदकेनोपसिक्त ओदन इत्युदकादव्यञ्जनान्न भवतीति प्रकृतिव्यवस्था । तरति ॥ ६. ४. ९॥
तेनेति तृतीयान्तात्तरत्यर्थे इकण् प्रत्ययो भवति । उडुवेन तरति औडुविकः काण्डप्लविकः, शारप्लविकः, गौपुच्छिकः १९ ।
नौस्वरादिकः ॥ ६. ४. १० ॥
नौशब्दाद्विस्वराच्च नाम्नस्तृतीयान्तात्तरत्यर्थे इकः नावा तरति नाविकः, नाविका, द्विस्वर, घटिकः, प्लविकः बाहुका ।१०।
प्रत्ययो भवति ।
दृतिकः, बाहुकः,
चरति ॥ ६. ४. ११ ॥
तेनेति तृतीयान्ताच्चरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह गत्यर्थो भक्ष्यार्थश्वगृह्यते । गत्यर्थ, हस्तिना चरति हास्तिकः, शाकटिकः, घाण्टिकः, आकषिकः । आकषः सुवर्णनिकषोपलः औषधपेषणपाषाणश्च । भक्ष्यर्थ, - दध्ना चरति दाधिकः, शाङ्ग वेरिकः ।११।
पर्पादेरिकद् ।। ६. ४. १२ ॥
पर्प इत्येवमादिभ्यस्तृतीयान्तेभ्यश्चरत्यर्थे इकट् प्रत्ययो भवति । पर्पेण अर्ध्य चरति पर्पिकः, पपिकी, अश्विकः, अश्वि की । पर्प, अश्व, अश्वत्थ, रथ, व्याल, व्यास इति पर्पादिः | १२ |
पदिकः । ६. ४. १३ ॥
पादशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो भवति अस्य पद्भावश्च निपात्यते । पादाभ्यां चरति पदिकः | १३|
श्वगणाद्वा ॥। ६. ४. १४ ॥
श्वगणशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः, श्वगणिकी, पक्षे इकण् श्वागणिकः, श्वागणिकी 'श्वादेरिति ' ( ७ - ४ - १० ) इति वात्प्रागौर्न भवति |१४|
वेतन देर्जीवति ॥ ६. ४. १५ ॥
तेनेति वर्तते, वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण् प्रत्ययो