________________
( पाद. ४. सू. ५-८] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [१५९ थकारात्प्रत्ययं मन्यन्ते । कोलस्थः, कोपान्त्य, तित्तिडीकेन तित्तिडीकाभिर्वा संस्कृतं तैत्तिडीकम्, दर्दु रूकेण दार्दु रूकम्, मरण्डूकेन मारण्डूकम्, अन्ये तु कवर्गोपान्त्यादपीच्छन्ति । मौहम्, सारघम् ।४।। ___ न्या० स० कुल-सारघमिति सरच मिः वृतं 'नाम्नि मक्षिषादिभ्यः' ६-३-१९३ इत्यण , सारघेण मधुना संस्कृतः ।। संसृष्टे ॥ ६. ४. ५॥
तेनेति तृतीयान्तात्संसृष्टेऽर्थे इकण प्रत्ययो भवति। मिश्रणमात्रं संसर्य इति पूर्वोक्तात्संस्कृताद्भेदः, दध्ना संसृष्टं दाधिकम्, शाङ्गवेरिकम्, पैप्पलिकम्, बैषिका भिक्षाः, आशुचिकन्नम् ।५।
न्या० स० संसृ०-दाधिकमिति अत्र संसृष्टं शाकादि भक्ष्यं विवक्षितं, अन्यथा ' व्यञ्जनेभ्य उपसिक्ते, ६-४-८ इति नियमः स्यार।
आशुचिकमिति नात्रान्न भोज्यार्थ पश्चाद्भाबनायामभक्ष्यत्वादतोऽनियमः । लवणादः ॥ ६. ४. ६॥
लवणशब्दात्तेन संसृष्टे अकारः प्रत्ययो भवति । लवणेन संसृष्टो लवणः सूपः, लवणः शाकः, लवणा यवागूः, लवणशब्दा द्रव्यशब्दा गुणशब्दश्च । तत्र द्रव्यवाची लवणशब्द: प्रत्ययं प्रयोजयति न गुणवाची, गुणेन विश्लेषपूर्वकस्य संसर्गस्याभावात् ।६।
चूर्णमुद्दाभ्यामिनणौ ॥ ६. ४. ७ ॥ ___ आभ्यां तेन संसृष्टे यथासंख्यमिन् अण् इत्येतो प्रत्ययौ भवतः। चणः संसृष्टाश्चणिनोऽपूपाः, चूणिन्यो धानाः । मुद्गः संसृष्टो मौद् ओदनः, मौद्री यवागूः ।७। ___ न्या० स० चूर्ण०-मत्वर्थीयेनैव इना सिद्धे संसृष्टविवक्षायामिकण्वाधनार्थम । व्यञ्जनेभ्य उपसिक्ते ॥ ६. ४. ८ ॥
व्यञ्जनवाचिनस्तृतीयान्तादुपसिक्तऽर्थे इकण् प्रत्ययो भवति । स्पेन उपसिक्तः सौपिक ओदनः, दाधिक ओदनः, घार्तिकः सूपः, तैलिक शाकम् । व्यजनेभ्य इति किम् ? उदकेन उपसिक्त ओदनः । व्यञ्जनशब्दो रूढया सूपादौ वर्तते । उपसिक्त इति किम् ? सूपेन संसृष्टा स्थाली। उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते न स्थाल्यादि । उपसिक्त संसष्टमेव तत्र 'संसृष्टे (६ । ४ । ५) इत्येव सिद्ध नियमार्थ वचनम् व्यजनैः संसृष्ट उपसिक्त एव उपसिक्ते च व्यञ्जनरेव, बहुवचनं स्वरूपविधेनिरासार्थम् ।८।