________________
॥ चतुर्थः पादः ॥
इकण् ॥ ६. ४. १ ॥
अण: पूर्णोऽवधिः, अधिकारोऽयम् आ पादपरिसमाप्तेः, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रापवादविषयं परिहृत्येक णित्यधिकृतं वेदितव्यम् । १ तेन जितजयद्दीव्यत्खनत्सु ॥ ६. ४. २ ।।
तेनेति तृतीयान्ताज्जिते जयति दीव्यति खनति चार्थे इकण् प्रत्ययो भवति । अक्षैजितमाक्षिकम्, शालाकिकम्, अक्षैर्जयति आक्षिकः, शालाकिकः, अक्षैर्दीव्यति आक्षिकः, शालाकिकः । अभ्रूच्या खनति आभ्रिकः, कौद्दालिकः, अभ्री काष्ठमयी तीक्ष्णाग्रा, इह तेनेति करणे तृतीया वेदितव्या नान्यत्रानभिधानात् तेन देवदत्तेन जितम् धनेन जितमित्यत्र न भवति । अत्र्या खनन्नङ्गुल्याः खनतीत्यत्र तु सत्यध्यङ्गुलेः करणत्वे मुख्यकरणभावोऽभ्रा एव नाङ्गुले रित्यङ्गुलिशब्दान्न भवति । यथा सुग्घ्नादागच्छन्वृक्षमूलादागत इति । जयदादिषु त्रिषु कालो न विवक्षितः जिते तु विवक्षितः बहुवचनं पृथगर्थताभिव्यक् यर्थम् |२|
अ । तेन० - आक्षिक इति अक्षेर्जयन् दीव्यन वा आक्षिकः एवमन्येपि, जयतीत्यादि तु वृत्तावर्थकथनं विग्रहः शत्रन्तेनैव द्रव्यप्रधानेन कर्त्तव्यः ।
कोद्वालिक इति कुं दालयति कर्म्मण्यणि पृषोदरादित्वात् पूर्वपदस्य दागमः, तेन खनन् । न विवक्षित इति कर्त्ता तु विवक्षितोडत एव जयद्ग्रहणे सत्यपि कर्म्मण्यपि इक प्रत्यार्थं जितग्रहणं, अयमर्थः जयतीत्युक्ते जयति, जेष्यति अजैषीदिति लभ्यते किं जितग्रहणेन ? उच्यते, भूते कर्म्मण्यपि वाच्ये यथा स्यादित्येवर्थं विवक्षित इति अतीतः कालः ।
संस्कृते ॥ ६. ४. ३ ॥
तेति तृतीयान्तात्संस्कृतेऽर्थे इकण् प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः, दध्ना संस्कृतं दाधिकम् । मारिचिक्रम्, शार्ङ्गवेरिकम्, उपाध्यायेन संस्कृत : औराध्यायिकः शिष्यः, विद्यया संस्कृतो वैद्यिकः, योगविभाग उत्तरार्थः ।३।
कुलत्थकोपान्त्यादण् ॥ ६. ४. ४ ॥
कुलत्थशब्दात्क का रोपान्त्याच्च शब्दरूपात्तेन संस्कृतेऽर्थेऽण् प्रत्ययो भवति, इकणोपवादः । कुलत्थैः संस्कृतं कौलत्थम्, अन्ये तु कुलत्थशब्दात्सकाराक्रान्त