________________
[पाद. ४. सू. ६९-७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१७३ द्वादशान्यिकः, द्वादशान्यिका स्त्री। त्रयोदशान्यिकः, त्रयोदशान्यिका, चतुर्दशान्यिकः । चतुर्दशान्यिका, अत्राप्यन्ये पूर्ववदन्यत्रापीच्छन्ति । द्वादश रूपाण्यध्ययने वृत्तान्यस्य द्वादशरूपिकः ।६८॥
भक्ष्यं हितमस्मै ॥ ६. ४. ६९ ॥ ___ तदिति वर्तते । तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थ इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेद्भक्ष्यं हितं भवति । अपूपा भक्ष्यं हितमस्मै आपूपिकः, शाष्कुलिकः, मौदकिकः, गौडधानिकः । भक्ष्यमिति किम् ? देवदत्तो हितोऽस्मै । हितमिति किम् ? अपूपा भक्ष्यमहितमस्मै । हितार्थो भक्षणक्रिया च तद्धितवृत्तावेवान्तर्भवति ।६९। । ___ न्या० स० भक्ष्यं०-अथास्येत्यनुवर्तमानस्य हितमित्येतद्योगेऽर्थवशात् 'हित्तसुखाभ्याम, २-२-६५ इति चतुर्थीपरिणामेनास्मायिति लभ्यते इति किमर्थमस्योपादानम् ? ____ सत्यं, उत्तरार्थत्वाददोषः, उत्तरत्र हि नियुक्तं दीयते इति षष्ठ्यन्तस्यापि संबन्धोपपत्तेरस्मै इति न लभ्यते इति संप्रदानप्रतिपत्त्यर्थ, अस्मायिति कर्त्तव्यं तदुत्तरार्थ सदिह सूत्रेऽपि विभक्तिपरिणामक्लेशमन्तरेण सोऽर्थः प्रतीयते इति क्रियते । नियुक्तं दीयते ॥ ६. ४. ७० ॥
तदिति अस्मै इति च वर्तते, तदिति प्रथमान्तादस्मै इति चतुर्थ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेन्नियुक्तमव्यभिचारेण नित्यं वा दीयते । अग्रभोजनमस्मै नियुक्त दीयते आग्रभोजनिकः, आग्रफलिकः, मांसिकः, आपूपिकः, शाष्कुलिकः, ग्रामिकः, आग्रहारिकः, अस्मै इत्येव । रजकस्य वस्त्रं नित्यं दीयते-अर्यते इत्यर्थः ७०।
श्राणामांसौदनादिको वा ॥ ६. ४. ७१ ॥ ___ श्राणामांसौदन इत्येताभ्यां तदस्मै नियुक्त दीयत इत्यस्मिन् विषये इकः प्रत्ययो वा भवति । श्राणा नियुक्तमस्मै दीयते श्राणिकः पथ्याशी श्राणिका, मांसौदनिकः, मांसौदनिका, पक्षे इकण् । श्राणिकी, मांसौदनिकी। इकेकणोः स्त्रियां विशेषः। अन्ये त्विकं नेच्छन्ति ।७१। - भक्तोदनादाणिकद ॥ ६. ४. ७२ ॥
भक्त ओदन इत्येताभ्यां यथासंख्यमण् इकट् प्रत्ययौ वा भवतः तदस्मै नियुक्त दीयते इत्यस्मिन्विषये। भक्तमस्मै नियुक्त दीयते भाक्तः ।
ओदनिकः । ओदनिको पक्षे इकण् । भाक्तिकः, औदनिकः-ओदनशब्दादिकणं नेच्छन्त्यन्ये ।७२।