________________
१५६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३. सू. २१५-२१९ ] सः प्रथमान्तादाभिजनान्निवासादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति । सुग्घ्नोऽस्याभिजनो निवासः सौग्नः, माथुरः, नादेयः, राष्ट्रियः ।२१४। शण्डिकादेर्यः ॥ ६. ३. २१५ ॥
शण्डिक इत्येवमादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थे ण्यः प्रत्यया भवति, अणाद्यपवादः । शण्डिक आभिजनो निवासोऽस्य शाण्डिक्यः। कौचवार्यः । शण्डिक, कुचवार सर्वसेन, सर्वकेश, शङ्ख, शक, शट, रक, चरण (चणक), शंकर, बोध इति शण्डिकादिः ।२१५॥ सिन्ध्वादे ।। ६. ३. २१६ ॥
सिन्ध्वादिभ्यः प्रथमान्तेभ्य आभिजननिवासवाचिभ्योऽस्येत्यस्मिन्नर्थेऽञ् प्रत्ययो भवति । सिन्धुराभिजनो निवासोऽस्य सैन्धवः, वार्णवः, सिन्धु, वर्ण, मधुमत्, कम्बोज, कुलूज, गन्धार, कश्मीर, सल्व, किष्किन्ध, गब्दिक, उरस्, दरद, ग्रामणी, काण्डवरक सल्वान्तेभ्यो नृनृस्थाकोपवादोऽञ् । शेषेभ्यो बहुविषयराष्ट्रलक्षणस्याको ग्रामणीकाण्डवरकाभ्यामीयस्य । तक्षशिलादिभ्यस्तु अञ् नोच्यते उत्सर्गेणैव सिद्धत्वात् ।२१६। ___ न्या० स० सिन्ध्वादेरञ्-अम् नोच्यत इति केचित्तक्षशिलादिभ्योऽत्र ब्रुवते, तन्न, बाधकप्रत्ययान्तराप्राप्तया 'प्राजितात् ' ६-१-१३ इत्येव सिद्धत्वात् । सलातुरादीयण ॥ ६. ३. २१७॥
सलातुरशब्दात्प्रथमान्तादाभिजननिवासवाचिनोऽस्येत्यस्मिन्नर्थे ईयण् प्रत्ययो भवति । सलातुर आभिजनो निवासोऽस्य सालातुरीयः पाणिनिः ।२१७। ____ न्या० स० सलातुरा०–सलातुरेति सालैस्ततं सालततं तच्च तत्पुरं च सालतस्पुरं, पृषोदरा दित्वात् सलातुरः। तूदीवर्मत्या एयण ॥ ६. ३. २१८॥
तूदीवर्मतीशब्दाभ्यां प्रथमान्ताभ्यामाभिजननिवासवाचिभ्यामस्येत्यर्थे एयण प्रत्ययो भवति । तूदी आभिजनो निवासोऽस्य तौदेयः, वार्मतेयः ।२१८। ___न्या० स० तूदीवर्म०–तावानायामो यस्याः सा तावदायामा, पृषोदरादित्त्वात्तदादेशे गौरादियां तूदी, वर्म तनोति 'क्वचित् ' ५-१-१७१ इति डे गौरादियां च वर्मती। गिरेरीयोऽस्त्राजीवे ॥ ६. ३. २१९॥
गिरिर्य आभिजनो निवासस्तदभिधायिनः प्रथमान्तादस्येति षष्ठ्यर्थे ईयः प्रत्ययो भवति अनाजीवे अखमाजीवो जीविका यस्य तस्मिन्नायुधजीविन्यभिधेय इत्यर्थः । हदोलः पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य