________________
| पाद. ३. सू. २१०-२१४ ]
श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः [ १५५
कौरवक इति कुशेरपत्यं कुरूणां राजा वा 'दुनादि ६-१-११८ इति ञ्यः कौरव्यं भजति मनुष्ये वाच्चे 'कच्छादेर्नृनृस्थे ' ६-३-५५ नित्यमकञ्, अन्यत्र तु 'कुरुयुगंधरावा ' ६-३-५३ इति वा अकञ्, पक्षे 'कोपान्त्याच्चाणू ' ६-३-५६ ।
यौगन्धरक इति युगंधराणां राजा युगंधरापत्यं वा 'साल्यांश' ६-१-११७ इति इञ तं भजति औत्सर्गिका ।
,
अतिदेशार्थमिति तेन वृजिकमद्रकपाण्डवक इति सिद्धं, अन्यथा पाण्ड्यक इत्यादौ यकारश्रुतिः स्यात्, न वाच्यं ‘तद्धितस्त्ररे २-४ - ९२ इति यलोपप्राप्तिः, अनापत्यत्वात् यकारस्य । नास्ति विशेष इति - आगक इत्यादि लिखितापेक्षया एतदुक्तं यावता आवन्तक इत्यादावस्त्येव विशेषः, अनापत्त्यत्वादावन्त्य इति स्थिते यलोपाप्रसङ्गात् ।
टस्तुल्यदिशि ।। ६. ३. २१० ।।
ट इति सहार्थतृतीयान्तात्तुल्यदिश्यर्थे यथाविहितं प्रत्ययो भवति । तुल्या, समाना, साधारणा दिक्, यस्य तुल्यदिक् । एकदिगित्यर्थः । सुदाम्ना एकदिक् सौदामनी विद्युत्, सुदामा नाम पर्वतो यस्यां दिशि तस्यां विद्युत्, तेन सा सुदाम्ना सहैक दिगुच्यते । सूर्येण सहैकदिक् सौरी बलाका, हिमवता एकदिक् हैमवती गङ्गा, त्रिककुदा एकदिक् त्रैककुदी लङ्का | २१० । तसिः ।। ६. ३. २११ ॥
ट इति तृतीयान्तात्तुल्यदिश्यर्थे तसिरित्ययं प्रत्ययो भवति । पूर्वेण यथास्वमणादय एयणादयश्च विहिताः प्रत्ययान्तरमिदं सर्व प्रकृतिविषयं विधीयते । सुदाम्ना एकदिक् सुदामतः, सूर्यतः हिमवत्तः, त्रिककुत्तः, पीलुमूलतः, पार्श्वतः पृष्ठतः, इकारो 'वत्तस्याम् ' (१-१-३४) इत्यत्र विशेषणार्थः । २११
,
यश्वोरसः ।। ६. ३. २१२ ।।
उरस् इत्येतस्मात्तृतीयान्तात्तुल्यदिश्यर्थे यः अणोऽपवादः । उरसा एकदिक् उरस्यः, उरस्तः ।२१२।
भवतः,
प्रत्ययश्चकारात्त सिश्व
सेर्निवासादस्य ।। ६. ३. २१३ ।।
सेरिति प्रथमान्तादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमान्तं निवासश्चत्स भवति । निवसन्त्यस्मिन्निति निवासो देश उच्यते । स्रघ्नो निवासोऽस्य स्रौघ्नः, माथुरः, नादेयः, राष्ट्रियः । २१३ | आभिजनात् ॥ ६. ३. २१४ ॥
सेनिवासादस्येति वर्तते । अभिजनः पूर्वबान्धवाः, तेषामयमाभिजनः ।