________________
बृहद्वृत्ति-लघुन्यास संवलिते [ पाद. ३ सू० १९८ - २०२
१५२ ]
अमोऽधिकृत्य ग्रन्थे ॥ ६. ३. १९८ ॥
कृत इति वर्तते, अम इति द्वितीयान्तादधिकृत्य कृते ग्रथेऽर्थे यथाविहितं प्रत्ययो भवति । अधिकृत्य प्रस्तुत्य उद्दिश्येत्यर्थः, तदपेक्षा द्वितीया । सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः, भद्रां भाद्रः, सुतारां सौतारः, भीमरथामधिकृत्य कृताख्यायिका भैमरथी । ग्रन्थ इति किम् ? सुभद्रामधिकृत्य कृतः प्रासादः । कथं वासवदत्तामधिकृत्य कृताख्यायिका वासवदत्ता उर्वशी सुमनोहरा afoबन्धनं सीताहरणमिति । उपचारद्ग्रन्थे ताच्छन्द्यं भविष्यति । १९८ |
न्या० स० अमो० - उपचारादिति अन्यैः प्रत्ययमुत्पाद्य लुबुक्ता तत्स्वमते कथम् ? इत्याह ताच्छन्द्यमिति स चासौ शब्दश्च तस्य भावः, अयमर्थः, स एव वासवदत्तादिशब्दो ग्रन्थे वर्तते ।
ज्योतिषम् ॥ ६. ३. १९९ ॥
7
ज्योतिःशब्दादमोऽधिकृत्य कृते ग्रन्थेऽण् प्रत्ययो वृद्ध्यभावश्च निपात्यते । ज्योतींष्यधिकृत्य कृतो ग्रन्थो ज्योतिषम् । १९९
शिशुक्रन्दादिभ्य ईयः ॥ ६. ३. २०० ॥
शिशुक्रन्द इत्येवमादिभ्यो द्वितीयान्तेभ्योऽधिकृत्य कृते ग्रन्थे ईयः प्रत्ययो भवति । शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः, यमसभीयः, इन्द्रजननीयः, प्रद्युम्नप्रत्यागमनीयः, प्रद्यम्नोदयनीयः, सीताहरणीयः, सीतान्वेषणीयः, शिशुक्रन्दादयः प्रयोगतोऽनुसर्तव्याः । शिशुक्रन्दशब्दान्केचिन्नेच्छन्ति । शैशु
क्रन्दम् ।२००।
न्या० स० शिशु० - यमसभीय० यमस्य सभा यमसमं शालां विना सभा, राजवर्जितेत्यादिना राक्षसादित्वात् क्लीवत्वम् ।
द्वंद्वात्प्रायः ॥ ६. ३. २०१ ॥
द्वन्द्वात्समासादमोऽधिकृत्य कृते ग्रन्थे प्रायः ईयः प्रत्ययो भवति, अणोऽपवादः । वाक्यपदीयम्, द्रव्यपर्यायीयम्, शब्दार्थसंबन्धीयम् । श्येनकपोतीयम् । प्राय इति किम् दैवासुरम्, राक्षोसुरम्, गौणमुख्यम् । २०१ |
न्या० स० द्वंद्वात् – श्येन कपोतीय मिति श्येनकपोतावधिकृत्येति शकटः, उत्पलस्तु नित्यवैरस्येत्येकवद्भावमिच्छति, ततः श्येनकपोतमिति वा ।
गौणमुख्यमिति संज्ञापूर्वको विधिरनित्यः इति न दोरीयः, गुणमुख्याद् वा प्रत्ययः । अभिनिष्क्रामति द्वारे ॥ ६.३.२०२ ॥
द्वितीयान्तादभिनिष्क्रामति अभिनिर्गच्छत्यर्थे यथाविहितं प्रत्ययो भवति