________________
[ पाद ३. सू. २०३-२०७] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १५३ तच्चेदभिनिष्क्रामद्वारं भवति । सुग्घ्नमभिनिष्क्रामति स्रौघ्नं कन्यकुब्जद्वारम् । माथुरम्, नादेयम्, राष्ट्रियं द्वारम्, करणभूतस्यापि द्वारस्याभिनिष्क्रमणक्रियायां स्वातन्त्र्यविवक्षा । यथा साध्वसिश्छिनत्तीति । रचनाबहिर्भावे वा निष्क्रमिः । यथा गृहकोणो निष्क्रान्तः । द्वार इति किम् ? स्रुघ्नमभिनिष्क्रामति चैत्रः ।२०२।
न्या० स० अभि०–निष्क्रान्त इति रचनाया बहिर्निगत इत्यर्थः । गच्छति पथि दूते ॥ ६. ३. २०३ ॥
द्वितीयान्तादच्छत्यर्थे यथाविहितं प्रत्ययो भवति योऽसौ गच्छति स चेत्पन्था दूतो वा भवति । सुग्घ्नं गच्छति स्रोग्घ्नः पन्था दूतो वा, माथुरः, नादेयः, राष्ट्रियः, पथिस्थेषु गच्छत्सु तद्धेतुः पन्था अपि गच्छतीत्युच्यते । स्रुघ्नादिप्राप्तिर्वा पथो गमनम् । पथिदूत इति किम् ? सुग्घ्नं गच्छति साधुः, पाटलिपुत्रं गच्छति नौः पण्यं वाणिग्वा ।२०३। भजति ॥ ६. ३. २०४॥
द्वितीयान्ताद्भजत्यर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्नं भजति स्रौघ्नः, माथुरः, नादेयः, राष्ट्रियः ।२०४।
महाराजादिकण् ॥ ६. ३. २०५॥ ___ महाराजशब्दात् द्वितीयान्ताद्भजत्यर्थे इकण् प्रत्ययो भवति । महाराज भजति माहाराजिकः ।२०५।। अचित्ताददेशकालात् ॥ ६. ३. २०६ ॥
देशकालवजितं यदचित्तमचेतनं तद्वाचिनो द्वितीयान्ताद्भजत्यर्थे इकण प्रत्ययो भवति । अणादेबर्बाधकः । अपूपान्भजति आपूपिकः, शाष्कुलिकः, मौदकिकः, पायसिकः अचित्तादिति किम् ? देवदत्तः। अदेशकालादिति किम् ? स्रौघ्नः, हैमनः ।२०६।
वासुदेवार्जुनादकः ॥ ६. ३. २०७॥ ___ आभ्यां द्वितीयान्ताभ्यां भजत्यर्थेऽकः प्रत्ययो भवति, ईयाकोरपवादः । वासुदेवं भजति वासुदेवकः, यदा वासुदेवशब्द: संज्ञाशब्दोऽक्षत्रियवचनस्तदोत्तरेणाकञ् न प्राप्रोति किं तु दोरीयः (६-३-३१) इतीय: स्यात् इति तद्ग्रहणम् । अर्जुनं भजति अर्जुनकः । अर्जुनशब्दः क्षत्रियवाचीत्युत्तरेणाकञ्