________________
[पाद. ३ सू. १९४-१९७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १५१ मक्षिका, सरघा, गमुत्, नमुका, पुत्तिका, क्षुद्रा, भ्रमर, बटर, वातप, इति मक्षिकादयः प्रयोगगम्याः ।१९३३ कुलालादेकञ् ॥ ६. ३. १९४ ॥
कुलाल इत्येवमादिभ्यस्तेन कृतेऽर्थेऽकज प्रत्ययो भवति नाम्नि संज्ञायाम् । कुलालेन कृतं कौलालकम, वारुटकम् । नाम्नीत्यभिधेयनियमार्थम्, तेन घटघटीशरावोदञ्चनाद्येव भाण्डं कौलालकम् न यतकिञ्चित्कुलालकृतम् । सूर्पपिटकपटलिकापिच्छिका व भाण्डं वारुटकम् नान्यत् । एवमन्यत्राप्यभिधेयनियमः। कुलाल, वरुट, कर्मार, निषाद, चण्डाल, सेना, सिरन्ध्र, देवराजन्, देवराज, परिषद्, वधू, भद्र, अनहुह, ब्रह्मन्, कुम्भकार, अश्वषाक, रुरु, इति कूलालादिः ।१९४।
न्या० स० कुला० सिरन्ध्रेति सितानि बद्धानि रन्ध्राणि यस्य सितरन्ध्रः, पृषोदरादित्वात्तस्य लोपः, 'अदासो दासवृत्तियः, स सिरन्ध्र इति स्मृतः ।' सर्वचर्मण ईनेनौ ॥ ६. ३. १९५॥
सर्वचर्मन्शब्दात्तेन कृते इन ईनञ् इत्येतौ प्रत्ययौ भवतः । नाम्नीत्यधिकारादभिधेयनियमः । सर्वश्चर्मणा कृतः सर्वचर्मीणः सार्वचर्माणः, अत्र सर्वशब्दस्य कृतापेक्षस्य चर्मशब्देनायोगिनापि ' नाम नाम्ना'-(३-१-१८) इत्यादिना समासः ।१९५॥ उरसो याणौ ॥ ६. ३. १९६॥
उरस्शब्दात्तेन कृते य अण् इत्येतो प्रत्ययौ भवती नाम्नि । उरसा कृतः उरस्यः औरसः ।१९६। छन्दस्यः ॥ ६. ३. १९७ ॥
छन्दसूशब्दात्तेन कृते यः प्रत्ययो निपात्यते नाम्नि । छन्दसा इच्छया कृतश्छन्दस्यः, न तु प्रवचनेन गायत्र्यादिना वा । नाम्नीत्यधिकारादभिधेयव्यवस्था । निपातनात् कचिदन्यत्रापि भवति । ओश्रावयेति चतुरक्षरम् अस्तु श्रौषट् इति चतुरक्षरं ये यजामहे इति पञ्चाक्षरम् यजेति यक्षरम्, यक्षरो वषट्कारः, एष वै सप्तदशाक्षरश्छन्दस्यो यज्ञमनुविहितः । अत्र स्वार्थे यः। यथानुष्टुबादिरक्षरसमूहश्छन्दस्तथैषां सप्तदशानामक्षराणां समूह छन्दस्य उच्यते ।१९७।
न्या० स० छन्दस्य:-यज्ञमनुविहित इति यज्ञमनुलक्ष्यीकृत्य विहितो अनुगत इत्यर्थः ।