________________
[पाद. ३ सू. १७०-१७३] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [१४५
वतिका देरीयः ॥ ६. ३. १७० ॥
रैवतिकादेगोत्रवाचिनस्तस्येदमित्यर्थे ईयः प्रत्ययो भवति, अकादेरपवादः। रैवतिकस्येदं, रैवतिकीयम् शकटम्, रैवतिकीयः संधादिः, रैवतिकीया दण्डमाणवशिष्याः, गौरग्रीवीयं शकटम, गौरग्रीवीयः संघादिः, गौरग्रीवीया दण्डमाणवशिष्याः । रैवतिकः, गौरग्रीवि, स्वापिशिष्य, क्षमधति, औदमेघि, औदवाहि, वैजवापि, इति रैवतिकादिः ।१७०।
न्या० स० रैव०-अकादेरिति आदिशब्दादणबोः। कौपिञ्जलहास्तिपदादण् ॥ ६. ३. १७१ ॥
आभ्यां गोत्रवाचिभ्यां तस्येदमित्यर्थेऽण् प्रत्ययो भवति, अकादेरपवादः । कुपिञ्जलस्यापत्यं कोपिञ्जलः, हस्तिपादस्यापत्यं हास्तिपदः, अतो निपातनादेवाण पादस्य च पद्भावः । तयोरिदं कौपिञ्जलं शकटम् । कौपिञ्जला दण्डमाणवशिष्याः, हास्तिपदं शकटम्, हास्तिपदा दण्डमाणवशिष्याः । अथाणग्रहणं किमर्थम् ? यथाविहितमित्येव ह्यण् सिद्धः । न चेयः प्राप्नोति । तदभीष्टौ हि रेवतिकादावेवैतौ पठघेयाताम्, अकप्राप्तौ वचनमनर्थकं स्यात् ? नैवम्, असत्यण्ग्रहणे दण्डमागवकशिष्येष्वकार्थमेतत् स्यात् । तत्र ह्यकत्र प्रतिषिद्ध इति । णित्त्वं उयर्थं पुवद्भावाभावार्थ च। कौपिञ्जलीस्थूणः । हास्तिपदीस्थूणः ।१७१। संघघोपाङ्कलक्षणेऽध्यजित्रः ॥ ६. ३. १७२ ॥
अजन्ताधजन्तादिजन्ताच्च गोत्रवाचिनस्तस्येदमित्यर्थे संघादावण प्रत्ययो भवति, अकञोऽपवादः । अञ् बिदानामयं बैदः संघो घोषोऽङ्को वा, बैदं लक्षणम् । यञ् गर्गाणामयं गार्गः संघो घोषोऽङ्को वा, गार्ग लक्षणम् । इन, दाक्षीणामयं दाक्षः संघो घोषोऽङ्को वा, दाक्षं लक्षणम् । संघादिष्विति किम् ? विदानां गृहम् । अञ्यजिञ इति किम् ? औपगवकः संघादिः । गोत्रादित्येव ? सोतंगमीयः संघादिः । अथाङ्कलक्षणयोः को विशेषः । लक्षणं लक्ष्यस्यैव स्वम्, यथा शिखादि, अङ्कस्तु स्वामिविशेषविज्ञापकः । स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वं भवति ।१७२।
न्या० स० संघ०-स्वं भवतीति स्वमात्मीयं सामान्यनिर्देशान्नपुंसकत्वम । शाकलादकञ् च ॥ ६. ३. १७३ ॥ शाकलशब्दात्तस्येदमित्यर्थे संघादावण अकञ् च प्रत्ययो भवति ।