________________
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३. सू. १७४-१७७ ] शाकल्येन प्रोक्तं वेदं विदन्त्यधीयते वा शाकलाः, तेषां संघो घोषोऽङ्को वा शाकलः शाकलकः, शाकलं शाकलकं लक्षणम् ।१७३।
न्या० स० शाक०-ननु शाकलाद् वेति क्रियतां विकल्पात् पक्षे 'चरणादकञ्' ६-३-१६८ इति अकञ् भविष्यति ? ___सत्यं, इह सूत्रे संघघोषाङ्कलक्षणाश्चत्वारोऽर्थाः चरणादकत्रित्यत्र तु धर्माम्नायसंघास्त्रयोऽस्तितश्चामीषां चतुर्णामेतत् सूत्रोपात्तार्थानां मव्यात्तत्र एकः संवा एवार्थः पप्रथे नान्ये इति अन्यार्थार्थोऽकञ् , अन्यथा संघार्थादन्यत्राऽर्थे विकल्पपक्षे ईय स्यात् । गृहेऽजनीधो रण धश्च ॥ ६.३. १७४ ॥
अग्नीध् ऋत्विग्विशेषः, तस्मात्तस्येदमित्यर्थे गृहे रण् प्रत्ययो भवति अन्तस्य च तृतीयबाधनार्थं धादेशः, अग्नीध इदं गृहमाग्नीध्रम् ।१७४। स्थात्सादेश्च वोढुङ्गे ॥ ६. ३. १७५ ॥
नियममूत्रमेतत्, रथात्केवलात्सपूर्वाच्च षष्ठयन्तादिदमर्थे य: प्रत्ययः स रथस्य वोढरि रथान एव च भवति रथस्यायं वोढा रथ्योऽश्वः, रथस्येदं रथ्यं चक्रम्, रथ्यं युगम्, सादि द्वयो रथयोर्वोढा द्विरथः, त्रिरथः 'द्विगोरनपत्ये यस्वर-' (६-१-२४) इत्यादिना यलुप् । अन्ये तु स्वरादेरेव लुमिच्छन्ति । तन्मते द्विरथ्यः, त्रिरथ्यः । परमरथस्येदं परमरथ्यम्, उत्तयरथ्यम्, आश्वरथम्, चक्रम् । वोढ़ङ्ग एव इति नियमात् अन्यत्र वाक्यमेव न प्रत्ययः । रथस्येदं स्थानम्, अश्वरथस्य स्वामी ।१७५॥
न्या० स० रथा-नियमसूत्रमिति प्रत्ययस्तूत्तरेणैव तडॅक एव योगः क्रियताम् ? नैवं, स्थात् सादेश्च वोढङ्गे य इति कृते विधि सूत्रं स्यात् ; ततश्च वोढ़ङ्ग इत्यस्य व्यावृत्ती रथस्येदं स्थानमिति कृते अण् प्रापेत् , नियमे वाक्यमेव ।
यः ॥६. ३. १७६ ।।
रथाकेवलात्सादेश्च षष्ठयन्तादिदमर्थे यः प्रत्ययो भवति, अणाद्यपवादः । रथस्यायं वोढा रथ्यः, द्वयो रथयोर्वोढा द्विरथः, त्रिरथः, रथ्यम्, परमरथ्यम, काष्ठरथ्यं चक्रम् ।१७६। पत्रपूर्वाद ॥ ६. ३. १७७ ।।
पन्न वाहनम्, तत्पूर्वाद्रथशब्दात्षष्ठयन्तादिदमर्थेऽञ् प्रत्ययो भवति, यापवादः। अश्वरथस्येदमाश्वरथं चक्रम् । आश्वरथं युगम्, औष्ट्ररथम, रासभरथम् ।१७७। ___ न्या० स० पत्र०-नन्वकरणं किमर्थं प्राजितादित्येव सेत्स्यति ? सत्यं, उत्तरसूत्रे हास्तो रथ इत्यत्र 'संयोगादिनः' ७-४-५३ इति निषेधः स्यात् ।