________________
१४४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. १६६-१६९ ] छन्दोगौक्थिकयाज्ञिकवचाच्च धर्माम्नायसंघे ॥ ६. ३. १६६ ॥
छदोगादिभ्यश्चरणेभ्यो नटशब्दाच्च तस्येदमित्यर्थे धर्मादौ ञ्यः प्रत्ययो भवति, छन्दोगादिभ्यश्चरणाको नटादणोऽपवादः । छन्दोगानां धर्म आम्नायः संघो वा छान्दोग्यम् , औविथक्यम् , याज्ञिक्यम्, बाहवृच्यम्, नाटयम् । धर्मादिष्विति किम् ? छन्दोगानां गृहं छान्दोगम् ।। १६६ ।।
आथवर्णिकादणिकलुक च ॥ ६. ३. १६७ ।। ___ आथर्वणिकशब्दात्तस्येदमित्यर्थे धर्मादावण्प्रत्यय इकलोपश्चास्य भवति । अथर्वणा प्रोक्त वेदं वेत्त्वधीते वा आथर्वणिकः, न्यायादित्वादिकण् । अत एव निपातनाद्वणपाटसामर्थ्याद्वा प्रोक्ताल्लुप्न भवति । आथर्वणिकानां धर्म आम्नायः संघो वा आथर्वणः, चरणादकजि प्राप्ते वचमम् ॥ १६७ ॥
न्या० स० आथ०-आथर्वणिकादण् लुक् चेति क्रियतां किमिकोपादानेन, यतोऽणो विधान सामर्थ्यालुक् न भविष्यति, ततश्च प्रत्ययाप्रत्ययोः इति न्यायात् इकस्यैव लोपो भविष्यति, न च वाच्यमुत्रयोरपि प्राप्नोति यदि स्यात्तदा विधानस्य न किमपि फलम् ?
नैवं, विधानस्य एतदेव फलमकअभावस्तत उभयोरपि लोपेनिष्टं स्यात रूपं, अत इक ग्रहणं विधातव्यम् । चरणादकञ् ॥ ६. ३. १६८ ॥
चरणशब्दो वेदशानावचनस्तद्योगात्तदध्यापिषु वर्तते । चरणवाचिनस्तस्येदमित्यर्थे धर्मादावकञ् प्रत्ययो भवति, अणोऽपवादः । ईयं तु परत्वाद्वाधते । कठानां धर्म आम्नायः संघो वा काठकः, चरकाणां चारकः, कलापानां कालापकःपैष्पलादानां पैष्पलादकः, मौदानां मौदकः, आर्चाभिनामा भकः, वाजसने यिनां वाजसनेयकः ॥१६८॥ गोत्राददण्डमाणवशिष्ये ॥६. ३. १६९ ॥ .
गोत्रवाचिनस्तस्येदमित्यर्थे दण्दमाणवशिष्यवजितेऽकञ् प्रत्ययो भवति, अणोऽपवादः । ईयाऔ तु परत्वाद्बाधते । औपगवस्येदमौपगवकम्, कापटवकम्, दाक्षकम्, प्लाक्षकम, गार्गकम्, गाायणकम्, ग्लौचुकायनकम्, म्लौचुकायनकम् अदण्डमाणवशिष्ये इति किम् ? काव्यस्येमे काण्वा दण्डमाणवाः शिष्या वा, एवं गौकक्षाः । शिकलादेर्यजः (६-३-२७) इत्यञ् । दाक्षेरिमे दाक्षाः, प्लाक्षाः, माहकाः । 'वृद्धेञः' (६-३-२८) इत्यञ् । दण्डप्रधाना माणवा दण्डमाणवाः आश्रमिणां रक्षापरिचरणार्थाः, शिष्या अध्ययनार्था अन्तेवासिनः ॥१६९॥