________________
[पाद. ३. सू. १६१-१६५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [१४३ राष्ट्रियम्, पारीणः, भानवीयः, श्यामगवीयः। पाटलिपुत्रकः प्राकारः, इह त्वनभिधानान्न भवति । देवदत्तस्यानन्तरः। ग्रामस्य समीपम् । विंशतेरवयवे एकः, शतस्य द्वौ, सहस्रस्य पञ्च, तस्येति षष्ठ्यर्थमात्रमिदमिति षष्ठ्यर्थसंबन्धिमात्रं च विवक्षितम् । यदन्यल्लिङ्गसंख्याप्रत्यक्षपरोक्षत्वादिकं तद्विवक्षितम् ।१६०। हलसीरादिकण् ॥ ६. ३. १६१ ॥
आभ्यां षष्ठयन्ताभ्यामिदमित्यर्थे इकण् प्रत्ययो भवति, अणोऽपवादः । हालिकम्, सैरिकम् ।१६१॥
समिध आधाने टेन्यण् ॥६. ३. १६२ ।। ___ आधीयते येन समित्तदाधानम, समिध् इत्येतस्मात्तस्येदमित्यर्थे टेन्यण प्रत्ययो भवति तच्चेदिदमाधानं भवति, अणोऽपवादः । टकारोङयर्थः, समिधामाधानो मन्त्रः, साभिधेन्यो मन्त्रः सामिधेनी ऋक्, सामिधेनीरन्वाह, पञ्चदश सामिधेन्यः ।१६२॥ विवाहे द्वन्द्वादकल् ॥ ६. ३. १६३ ॥
द्वन्द्वात्तस्येदमित्यर्थे विवाहेऽभिधेयेऽकल् प्रत्ययो भवति, अणोऽपवादः । अत्रिभरद्वाजानां विवाहोऽत्रिभरद्वाजिका, वशिष्ठकश्यपिका, भृग्वङ्गिरसिका, कुत्सकुशिकिका, गर्गभार्गविका, कुरुवृष्णिका, कुरुकाशिका, लकारः स्त्रीत्वार्थः ।। १६३ ॥
अदेवासुरादिभ्यो वैरे ॥ ६. ३. १६४ ॥ ___ द्वन्द्वात्षष्ठ्यन्ताद्देवासुरादिवजितादिदमर्थेवैरेऽकल् प्रत्ययो भवति, अणोsपवादः । ईयं तु परत्वाद्धाधते । बाभ्रवशालङ्कायनानामिदं वैरम् बाभ्रवशालङ्कायनिका । काकोलूकस्येदं वैरम् काकोलूकिका, श्वावराहिका, श्वशृगालिका, अहिनकुलिका अदेवासुरादिभ्य इति किम् ? दैवासुरम्, राक्षोऽसुरम, देवासुरादयः प्रयोगगभ्याः ॥१६४ ।। नटान्नृत्ते ज्यः ॥ ६. ३. १६५ ॥
नटशब्दात्तस्येदमित्यर्थे नृत्ते ज्यः प्रत्ययो भवति । नटानामिदं नत्यं नाटयम् । नृत्त इति किम् ? नटानामिदं गृहम् ॥ १६५ ॥