________________
१४०]
वृहवृत्ति-लघुन्याससंवलिते [पाद. ३. सू. १५०-१५४ ] - विद्यायोनिसंबन्धादकम् ॥ ६. ३. १५० ॥
विद्याकृतो योनिकृतश्च संबन्धो येषां तद्वाचिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽकञ् प्रत्ययो भवति, अणोऽपवादः । ईयं तु परत्वाद्वाधते । विद्यासंबन्धः, आचार्यादागतमाचार्यकम्, औपाध्यायकम्, शैष्यकम्, आत्विजकम्, आन्तेवासकम्, योनिसंबन्ध पैतामहकम्, मातामहकम्, पैतृव्यकम्, मातुलकम् ।१५०।
___ न्या० स० विद्या०–विद्याकृत इति विद्या च योनिश्च संबन्धो यस्येति बहुव्रीहिः, अत्र विद्याकृते संबन्धे विद्याशब्दो योनिकृते च योनिशब्द उपचारादर्थे च कार्यासंभवाद् विद्यायोनिसंबन्धवाचिनः प्रतिपत्तिरित्याह-विद्याकृत इत्यादि । पितों वा ।। ६. ३. १५१ ॥
पितृशब्दाद्योनिसंबन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे यः प्रत्ययो वा भवति, इकणोऽपवादः । पितुरागतं पित्र्यम् । 'ऋतो रस्तद्धिते' (१-२-२६) इति रत्वम् । पक्षे पैतृकम् ।१५१। ऋत इकण ॥ ६. ३. १५२ ॥
ऋकारान्ताद्विद्यायोनिसंबन्धवाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति, अकोऽपवादः । होतुरागतं होतृकम्, पौतृकम्, प्राशास्तृकम् प्रातिहर्तृ कम्, शास्तृकम् यौनिसंबन्ध-मातृकम्, भ्रातृकम्, स्वासृकम्, दौहितकम्, जामातृकम् नानान्दृकम्। मातुरागता मातृकी विद्या, इकणन्तत्वात् ङीप्रत्ययः ।। १५२ ।।
आयस्थानात् ॥ ६. ३. १५३ ॥ __स्वामिग्राह्यो भाग आय: स यस्मिन्नुत्पद्यते तदायस्थानम् । तद्वाचिनः पञ्चम्यन्तादागतेऽर्थे इकण् प्रत्ययो भवति, अणोऽपवादः। ईयं तु परत्वाबाधते। एत्य तरन्त्यस्मिन्नित्यातरो नदीतीर्थम् । तत आगतम् आतरिकम्, शौल्कशालिकम् । आपणिकम् , दौवारिकम् आयस्थानत्वेनाप्रसिद्धादपि ताप्येण विवक्षिताद्भवतीति कश्चित् । स्रौनिकः ।।१५३।।
न्या० स० आय०-एति ऐति वा स्वामिनं, 'तन्व्यधी' ५-१-६४ इति णे, आयाति वा 'उपसर्गा' ५-१-५६ इति डः, आयस्तिष्ठत्यस्मिन्निति स्थानं आयस्य स्थानम् ॥ शुण्डिकादेरण ॥ ६. ३. १५४ ॥
शुण्डिक इत्येवमादिभ्यः पञ्चम्यन्तेभ्य आगतेऽर्थेऽण् प्रत्ययो भवति, इकणादेरपवादः । शुण्डः शुण्डा वा सुरा ततो मत्वर्थीये शुण्डिकः शुण्डिका वा सुरापणः सुराविक्रयी चोच्यते । तत आगतं शौण्डिकम्, औदपानम्, कार्कणम्,