________________
[ पाद. ३. सू. १५५-१५६ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः [ १४१ अण्ग्रहणं विस्पष्टार्थम् । यदि ह्यनेनाप्यायस्थानादिकण्तीर्थाद्धूमाद्यकञ् पर्णकृकणाभ्यां चैयः स्यात् वचनमिदम् अनर्थकं स्यात् । न चोदपानादिहायणि वा विशेषोऽस्तीति । यदा तु शुण्डिकादीनि सर्वाण्यायस्थानान्येव तदा अकजयबाधनार्थम् । शुण्डिका, उदपान, पर्ण, कृकण, उलप, तृण, तीर्थ, स्थण्डिल, उपल, उदक, भूमि, पिपल इति शुण्डिकादिः ॥ १५४ ॥
न्या०० शुण्डिकादे० - बिस्पष्टार्थमिति ननु यद्य ग्रहणं न क्रियते तदानीं 'आयस्थानात् ' ६-३-१५३ इत्यादिभिरिकणादयः प्राप्नुवतीत्याह - यदीति । अनर्थकं स्यादिति तैरेव सूत्रैरमीषां प्रत्ययानां सिद्धत्वात् किं चानन्तर इकणू नानुवर्त्तते ? अनायस्थानत्वे हि सूत्रारम्भात् आयस्थानशुण्डिकादिभ्यामित्येक योगा करणाच्च तस्मात् विस्पष्टार्थमिति सूक्तं । अकञीयबाधनार्थमिति अयमर्थः यदा शुण्डिकादीनि सर्वाण्यप्यायस्थानान्येव तदा तीर्थाद धूमादकनः पर्णकृकणाभ्यामिति च ईयस्यापवादे आयस्थानादितीकणि प्राप्ते इत्यारम्भादिकणो निवृत्तेर्यथाप्राप्तमिति ततोऽकीय प्राप्नुतः, अतस्तौ बाधित्वा ततोऽप्यणेव यथा स्यादित्येवमर्थमण् ग्रहणमित्यर्थः । गोत्रादङ्गवत् ॥ ६. ३. १५५ ॥
गोत्रवाचिनः शब्दात्पञ्चम्यन्तादागतेऽर्थे अङ्क इव प्रत्ययविधिर्भवति यथा भवति विदानामङ्कः बंद: गार्गः दाक्ष इति 'संघघोषाङ्क' – (६-३-१७१) इत्यादिना तथेहापि बिदेभ्य आगतं बैदम्, गार्गम्, दाक्षम्, अङ्कग्रहणेन तस्येदमित्यर्थं सामान्यं लक्ष्यते । तेनोकञोऽप्यतिदेशः । अन्यथा संघाद्यण् एव स्यात्, तेन यथा भवति औपगवकः कापटवकः नाडायनकः गायणिक इति ' गोत्राददण्ड ' ( ६-३ - १६८) इत्यादिनाऽकञ् तथेहापि औपगवकः कापटवकः नाडायनकः गार्ग्यायणकः, एवं ' रैवतिकादेरीय: ' (६-३-१६९) । रैवतिकेभ्य आगतं रैवतिकीयम् गौरग्रीवीयम्, 'कौपिञ्जलहास्तिपदादण् ' ( ६-३-१७०) कौपिञ्जलादागतं कौपिञ्जलम् हास्तिपदम् ।। १५५ ।।
न्या० स० गोत्रा० – कौपिञ्जलमिति कुपिञ्जलस्यापत्यं, हस्तिपादस्यापत्यं ' अत इभि प्राप्ते, अत एव निपातनादण् पादस्य पद्भावश्च तस्येदं 'कौपिअलहास्तिपदादणू ' ६-३-१७१ ।
तुभ्यो रूप्यमयटी वा ॥ ६. ३. १५६ ॥
नृवाचिभ्यो हेतुवाचिभ्यश्च पञ्चम्यन्तेभ्य आगतेऽर्थे रूप्य मयट् इत्येतौ प्रत्ययौ वा भवतः ताभ्यां मुक्ते यथाप्राप्तम् । वचनभेदाद्यथासंख्याभावः । हेतुः कारणम्, नृग्रहणमहेत्वर्थम् । देवदत्तादागतं देवदत्तरूप्यम्, देवदत्तमयम्, दैवदत्तम्, अत्रापादाने पञ्चमी । हेतु समादागतं समरूप्यम्, सममयम्, विषमरूप्यं विषममयम्, पक्षे गहादिपाठादीयः । समीयम्, विषमीयम्, पापरूप्यम् पापमयम्,